SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णि भाष्यावचूरिः उ० १ सू० ५१-५६ वस्त्रस्य सीवनफलिकाप्रन्धन प्रकरणम् २७ अथास्य प्रकृतसूत्रस्य पञ्चाशता सूत्रेण सह कः संबन्धः ? इति चेत् अत्रोच्यते - पूर्वपूर्वतरसूत्रेषु थिग्गलसंयोजनं कथितम् । तत् थिग्गलं सीवनमन्तरेण न संभवति इति थिग्गलसीवनं स्मार यति, तत्सीवनं केन विधिना भवतीति सीवनविधिप्रदर्शनार्थमेतत्सूत्रमाह - 'जे भिक्खू' इत्यादि । सूत्रम् - जे भिक्खू अविहीए वत्थं सिव्वइ सिव्वंतं वा साइज्जइ । ५१ । छाया - यो भिक्षुरविधिना वस्त्रं सीव्यति सीव्यन्तं वा स्वदते ॥ सू० ५१ ॥ । चूर्णी -- 'जे भिक्खू' यो भिक्षुः, 'अविडीए' अविधिना विधिमुल्लङ्घ्य, 'वत्थंसिव्वइ' वस्त्रं प्रावरणचोलपट्टादिकं सोर्व्यात सीवनं करोति, कारयति 'सिन्बंतं वा साइज्जइ' सीव्यन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । अयं भावः - यथा गृहस्थः शोभार्थं वस्त्रादौ जालिकां करोति तथा यदि : साधुः कुर्यात् यद्वा कुर्वन्तमनुमोदयेत् तदा तादृशवस्त्रस्य प्रतिलेखनादिकं कर्त्तुं न शक्ष्यति, अतोऽविधिपूर्वकं तत् सीवनम् - इति, तथाकरणे कर्त्तुः कार - यितुः कुर्वन्तमनुमोदयितुर्भवत्येव प्रायश्चित्तम् । अयं भावः - सीवनं पञ्चप्रकारकम् - गग्गरक सीवनम् १ दण्डिसीवनम् २ जालिकासीवनम् ३ एकसरासीवनम् ४ दुष्कीलकसीवनम् च ५ भवति । तत्र - गग्गरसीवनं दण्डिसीवनं च यथा गृहस्थानां 'कुर्ता- कोट, कोत्थल - कोथला - कोथली' इत्यादिभाषाप्रसिद्धानां सीवनम् १ -- २, नालिकासीवनं प्रसिद्धं वस्त्रेषु जालिकादिकरणेन विच्छित्तिसम्पादनम् ३ । एकसरासीवनं लोकप्रसिद्धं 'कसीदा' 'भरत' इत्यादिनाम्ना ४ | दुष्कीलकसीवनं यथा तथा सीव्यते, यथा-उभयतो वस्त्रस्य कीलकमिव डोकं भवति ५ । एतत्सर्वं सीवनमविधिरूपम्, यत एतेषु प्रत्युपेक्षणादिकं सम्यक् न संभवति अतो नैतत्कर्तव्यम् । विधिसीवनं मोसूत्रिकाकारसीवनं स्वसमयप्रसिद्धमिति दिकू ॥ सू० ५० ॥ सूत्रम् — जे भिक्खू वत्थस्स एवं फलियं गंठियं करेड करेंतं वा साइज्जइ ॥ सू० ५२ ॥ छाया - यो भिक्षुर्वस्त्रस्यैकां फलिकां ग्रथितां करोति कुर्वन्तं वा स्वदते ॥ सू० ५२|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'वत्यस्स' वस्त्रस्य, 'एगं फलियं गंटियं करेइ' एकां फलिकां - वस्त्रान्तस्थिततन्तुजालरूपां प्रथितां करोति वस्त्रान्तस्थिततन्तुजालं फलिकारूपेण प्रथ्नातीत्यर्थः, 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागू भवति । शेषं प्राग्वत् ॥ सू० ५२ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy