________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णिभाष्यावचूरिः उ० १ सू० ४९-५०
वस्त्रसन्धानप्रकरणम् २५
सुवर्णम् अन्य दुर्वर्णम्-अनिष्टमित्यर्थः । एतल्लक्षणयुक्तं पात्रमलक्षणं कथ्यते इति । तत्र कस्मिन् अलक्षणे सति तद्धारयितुः किमाकारको दोष आपद्येत ? तत्रोच्यते - हुंडनामकेऽलक्षणे चारित्रभेदः १, शबलनाम के लक्षणे चित्तविभ्रमः २ वाताविद्धनामकेऽलक्षणे साधोरुन्मादो भवति ३, दुष्पुत - कीलसंस्थाननामकेऽलक्षणके गणे― चारित्रे च स्थानं न लभते ४/५ | पद्मोत्पलनामकालक्षणे - अकुशलं शरीरपीडा भवति ६, सवर्णापलक्षणे उपकरणस्य ज्ञान - दर्शन - चारित्रस्य च विराधना भवति ७, दग्धे अन्तर्बहिर्वा मरणं भवति ८ । दुर्वर्णनामकाऽलक्षणविशिष्टपात्रधारणे ज्ञानस्यागमो न भवति ९, तस्मात् - अलक्षणयुक्तं पात्रं न धारयेत् । कीदृशं पात्रं केन वा क्रमेण कियन्तं वा कालं मार्गयितव्यम् ! तत्रोच्यते-प्रथमं तावत् चतुरो मासान् पर्यन्तं यथाकृतं नाम पात्रं केवलकाष्टनिर्मितं पूर्वकृतमुखं वाऽलाबूपात्रं मार्गयितव्यं किन्तु न परिकमितमिति । यदि चतुर्मासं यावदन्वेषणे कृतेऽपि तादृशं यथाकृतं पात्रं न लब्धं भवति, तदा - तदनन्तरं मासद्वयं यावत् अल्पपरिकर्मितमेव पात्रं मार्गयितव्यम् । यद्येतावता कालेनाऽपि तादृशमल्पपरिकर्मितं पात्रं लब्धं न भवेत्, तदा-द्वयर्धमासं यावत् बहुपरिकर्मितमपि पात्रं मार्गयेत् यस्मात् - तदनन्तरं वर्षाकालः प्राप्तो भवति, वर्षाकाले च परिकर्म न भवति । यदि यादृशमागमे कथितं सलक्षणं पात्रम् तादृशं पात्रं न लभेत, तदा तावद् यदेव प्राप्तं तदेव पात्रमनुकर्षयितव्यमिति संक्षेपः ॥ सू०४८॥
"
इतः पूर्वसूत्रेषु - एक-द्विकादिथिग्गलं बन्धनं वा दर्शितम्, अधुना - प्रकृतसूत्रे वस्त्रे थिग्गल योजनाप्रकारमाह - 'जे भिक्खू' इत्यादि ।
सूत्रम् — जे भिक्खू वत्थस्स एवं पडियाणियं देइ, देयंतं वा साइज्जइ ॥ सू० ४९ ॥
छाया - यो भिक्षुर्वस्त्रस्य एकं प्रत्यनीकं ददाति ददतं वा स्वदते ॥ सू० ४९ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'वत्थस्स' वस्त्रस्य, तत्र -- वासयति-आच्छादयति रक्षति शीतोष्णादिभ्यः शरीरमिति वस्त्रम् - प्रावरणक-चोलपट्टादिकम्, तस्य वस्त्रस्य ' एगं पडियाणियं' एकं प्रत्यनीकम् अन्यजातीयवस्त्र संभवं थिग्गलकम् कारणं विना तज्जातीयमेकं थिग्गलम् - अन्यजातीयवस्त्रस्य वा थिग्गलं ददाति दापयति 'देयतं वा साइज्जइ' ददतं वा स्वदतेऽनुमोदते, स आज्ञाभङ्गादिकमात्मविराधनं संयमविराधनं च प्राप्नोति, अतः प्रायश्चित्तभाग् भवति ॥ सू० ४९॥
"
संप्रति सूत्रप्रतिपादितं वस्त्रं कतिप्रकारकं भवतीति जिज्ञासायामाह भाष्यकार : - 'वत्थं
पंचवि' इत्यादि ।
४
For Private and Personal Use Only