________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४५८
निशीथसूत्रे
चूर्णी -- ' अद्धछट्टमासियं' इत्यादि । 'अद्धछट्टमासि' अर्धषष्ठमासिकम्, पञ्च मासाः संपूर्णाः षष्ठमासस्य अर्को भागः इत्येवमर्द्धाधिकं पाञ्चमासिकं परिहारस्थानमित्येवं क्रमेण प्रकृतसूत्रस्य व्याख्यानं कर्तव्यं केवलं ततः परमिति ततः पञ्चात् अर्द्धषष्ठमासेषु - सार्धेषु पञ्चसु मासेषु पाक्षिकी आरोपणा संमेल्यते तदा परिपूर्णाः षड् मासाः प्रायश्चित्तरूपेण भवन्ति, नास्ति षण्मासा नन्तरं प्रायञ्चित्तमिति भावः ॥ सू० ४६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललित कलापालापक प्रविशुद्धगद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त“जैनशास्त्राचार्य”- पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री - घासीलालवति - विरचितायां “निशीथसूत्रस्य” चूर्णि भाष्यावचूरिरूपायां व्याख्यायाम् विंशतितमोदेशकः समाप्तः ॥ २० ॥
॥ समाप्तं निशीथाध्ययनम् ॥ ¿Z»MEZ+M&E+MW
For Private and Personal Use Only