SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशोथसत्र पाञ्चमासिकादित आरभ्य मासिकपर्यम्तामि पञ्चापि सूत्राणि व्याख्येयानीति विरम्यते ।। सू० ३७॥ तदेवं पूर्वोक्तेषु पाण्मासिकादिषु षट्सु सूत्रेषु द्वयों मासः प्रायश्चित्तत्वेन प्रतिपादितः । अथ यो द्वयर्धमासिकपरिहारस्थानप्रस्थापितः सन् तन्मध्ये यदि मासिकपरिहारस्थानं प्रतिसेवते तद्विषयकं प्रायश्चित्तविधिमाह--'दिवड्ढमासिय' इत्यादि। सूत्रम्-दिवड्ढमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं दो मासा ॥ सू०३८॥ छाया-द्वयर्धमासिक परिहारस्थान प्रस्थापितोऽनगोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा सार्थ सहेतु सकारणमहीनमतिरिक्त तेन पर छौ मासौ ॥ सू० ३८ । ___ चूर्णी- 'दिवड्मासियं' इत्यादि । 'दिवड्ड्मासियं' द्वयर्धमासिकम् द्वितीयोऽधों यत्र स द्वचः स मासो यत्र तद् द्वयर्थमासिकम् 'परिहारहाणं' परिहारस्थानं पापप्रयोजक कर्मानुष्ठानं तत्प्रति 'पद्धविए, प्रस्थापितः तादृशकर्मविनाशाय तादृशप्रायश्चित्तकरणाय नियोजितः 'अणगारे' अनगारो-भिक्षुकः 'अंतरा' अन्तरा-मध्ये 'मासियं परिहारहाण' मासिकं परिहारस्थानम् पिडिसेवित्ता' प्रतिसेव्य-परिहारस्थानप्रतिसेवनां कृत्वा 'आलोएग्जा' आलोचयेत् तस्य 'अहावरा पक्खिया आरोषणा' अथापरा पाक्षिकी पञ्चदशदिवसप्रमाणात्मिका आरोपणा प्रायश्चित्तदानरूपा प्रस्तुततपःस्थापितप्रायश्चित्तादधिकं पाक्षिकं प्रायश्चित्तं दातव्यम् । तच्च 'आइमज्झावसाणे' आदिमध्यावसाने 'समई सहेउं सकारणं अहीणमहरितं' सार्थ सहेतुकं सकारणमहीनमतिरिक्तम् प्रतिसेवितानुसारं सर्व प्रायश्चित्तरूपेण दातव्यं न किमपि त्यक्तव्यम् 'तेण परं दो मासा' तेन परं द्वौ मासौ ततः परं सर्व द्वौ मासौ प्रायश्चित्तरूपेण भवतः । द्वयर्धमासिकप्रायश्चित्ते आरोपणायाः पक्षः संमेल्यते तदा परिपूर्णों द्वौ मासौ जायेते इति भावः ॥ सूत्रम्-दोमासियं परिहारट्ठाणं पठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअळं सहेउं सकारणं अहीणमइरितं तेण परं अड्डा इज्जा मासा ॥ सू० ३९॥ छाया- द्वैमासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणम् अहीनतिरिक्त तेन परम् साधतृतीयौ मासौ ॥ सु. ३९॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy