________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
જર
निशीथसू आइमज्झावसाणे असटुं सहेउं सकारणं अहीणमइरित्तं तेण परं दिवड्डो मासो ॥ सू० ३२॥
छाया-पाण्मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परं द्वयं? मासः ॥सू० ३॥
चूर्णी-'छम्मासियं' - इत्यादि । 'छम्मासियं परिहारट्ठाणं' पाण्मासिकं परिहारस्थानम्-मासषट्केन संपादनयोग्यं परिहारस्थानं प्रतिसेव्य तत् पापनिराकरणाय पाण्मासिकपरिहारतपसि 'पट्टविए अणगारे' प्रस्थापितोऽनगारः तादृशप्रायश्चित्तकरणाय तत्र नियोजितो भिक्षुः यदि 'अंतरा' अन्तरा-तन्मध्ये तादृशप्रायश्चित्तकरणावसरे प्रमादतो मोहनीयकर्मों. दयाद्वा 'मासियं परिहारट्ठाणं' मासिकं परिहारस्थानं प्रतिसेवते 'पडिसेवित्ता' प्रतिसेव्यमासिकपरिहारस्थानस्य प्रतिसेवनां कृत्वा तादृशकर्मणां विनाशाय 'आलोएज्जा' आलोचयेत्स्वकृतपापस्य गुरुसमीपे प्रकाशनं कुर्यात् । तत्राकपटभावेन आलोचनां कुर्वतः श्रमणादेः 'अहावरा पक्खिया आरोवणा' अथापरा पाक्षिकी आरोपणा, अर्थात्-प्रायश्चित्तमध्ये पुनः प्रतिसेवितपरिहारस्थानत्यापनोदनाय मासमध्ये पञ्चदशदिवसस्यैव प्रायश्चित्तं दातव्यम् , कथमित्याह'आइमज्याक्साणे सअटुं सहेउं सकारणं अहीणमहरित' आदिमध्यावसाने सहेतुं सकारणमहीनमतिरिक्तम्-न न्यूनं नाधिकं परिपूर्ण प्रायश्चित्तं दातव्यम् न किञ्चिदपि परित्यक्तव्यम् । 'तेण परं दिवड्ढो मासो' तेन परं य? मासः पञ्चदशदिवसाधिक एको मासः प्रायश्चित्तरूपेण भवति, अत्र पाक्षिकारोपणायाः सद्भावादिइति ॥ सू० ३२॥
सूत्रम्-पंचमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं दिवड्डो मासो ।सू० ३३॥
छाया--पाञ्चमासिकं परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेत सकारणमहीनमतिरिक्तं तेन परं द्वयों मासः ।।सू० ३३॥ - सूत्रम्--चाउम्मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं दिवड्डो मासो ॥ सू० ३४॥
For Private and Personal Use Only