________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूणिभाष्यावरिः उ० २० सू० २७-२९ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ॥3 योगं व्यत्ययेन व्याख्येयानि । विशेषस्त्वयम्-यत् आदिमध्यावसाने पश्चादिमासानां यथायोगं त्रयो भागाः करणीया इति ॥ सू० २२-२६ ॥
पूर्व पाण्मासिकादिमासिकपर्यन्तपरिहारस्थानप्रस्थापिताऽनगारस्य द्वैमासिकपरिहारस्थानसेवने सविंशतिरात्रिकद्विमासप्रायश्चित्तदानस्वरूपं प्रदर्शितम्, अथ सविंशतिरात्रिकद्विमासप्रायश्चित्तसेवनासमये तत्रापि यः कश्चित् साधुः पुनरपि द्वैमासिकपरिहारस्थान सेवते तस्य प्रायश्चित्त विधिं दर्शयति- 'सबीसइराइयं' इत्यादि ।
सूत्रम्--सवीसइराइयं दामासियं परिहारट्ठाणं पठविए अणगारे अंतरा दोमासियं परिहारठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअठं सहेउं सकारणं अहीणमइरितं तेण परं सदसराया तिण्णि मासा ॥ सू० २७॥
छाया-सविंशतिरोत्रिकं द्वैमासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरामा. सिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्तं तेन परं सदशरात्रास्त्रयो मासाः॥सू०२७॥
चूर्णी-'सवीसइराइयं' इत्यादि । 'सवीसइराइयं दोमासियं' सविंशतिरात्रिकं द्वैमा. सिकम् , तत्र विंशतिरात्रिभिः सहितमिति सविंशतिरात्रिकम्-विंशतिरात्र्यधिकं द्वैमासिकं मासद्वयसंपादनयोग्यम् 'परिहारहाणं' परिहारस्थानम्-सावधकर्भानुष्ठानम् , एतादृशकर्मणां निराकरणाय तदनुकूलपरिहारतपसि 'पदविए' प्रस्थापित आरोपितः 'अणगारे' अनगार-भिक्षुकः-श्रमणः श्रमणी वा 'अंतरा' अन्तरा-तन्मध्येऽपि 'दोमासियं परिहारट्ठाण पडिसेवित्ता' द्वैमासिकं परिहारस्थानं प्रतिसेव्य द्वैमासिकपापस्थानप्रतिसेवनं कृत्वा 'आलोएज्जा' आलोचयेत्-स्वकृतकर्मणः प्रकाशनं कुर्यात् तदा 'अहावरा वीसइराइया आरोवणा' अथापरा-ततोऽन्या पूर्वे सेव्यमानद्विमासादन्या विंशतिरात्रिकी आरोपणा, तत्र तादृशमपरं द्वैमासिकं परिहारस्थानमासेव्य यदि अकपटमालोचयति तदा विंशत्यहोरात्रस्य प्रायश्चित्तं भवति । तच्च 'आइमज्झावसाणे' आदिमध्यावसाने विंशतिदिवसात्मके प्रतिभागे 'सअट्ट सहेउं सकारणं अहीणमइरितं' सार्थ सहेतुकं सकारण-महीनमतिरिक्तम् अन्यूनानधिकम् यत् यत् प्रतिसेवितं तत्सर्वमेव दातव्यं प्रायश्चित्तरूपेण । तेण परं' तेन ततः परं प्रस्थापितद्वैमासिकप्रायश्चित्तस्य विंशतिरात्रिकारोपणासहितसविंशतिरात्रिकं सर्वसंकलितं प्रायश्चित्तम् 'सदसराया तिण्णि मासा' सदशरात्रास्त्रयो मासाःदशाहोरात्रसहितास्त्रयो मासाः प्रायश्चित्तस्य भवन्तीति ॥ सू० २७ ॥
For Private and Personal Use Only