SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " चूर्णिभाष्यावचूरिः उ० २० सू०१७ मासिकादिपरिहारस्थानप्रतिसेवनप्रायश्चित्तविधिः ४४१ नयोग्यम् - अनुपारिहारिकं पारिहारिकानुकूलवत्तिनं कञ्चित्साधुम् 'ठवइत्ता' स्थापयित्वा - नियतं "कृत्वा अनुपारिहारिकेण वैयावृत्यकारेण च 'कर णिज्जं वेयावडियं' करणीयं वैयावृत्त्यम्, अस्य परिहारतपसि वर्तमानस्य यथायोग्यमनुशिष्टयुपालम्भोपग्रहलक्षणं वैयावृत्यं करणीयम् | 'ठाविएवि पडिसेवित्ता' स्थापितेऽपि-अनुशिष्ट्युपालम्भादिभिः क्रियमाणेऽपि वैयावृत्ये प्रतिसेविता कदाचित् किमपि अपराधस्थानं प्रतिसेवको भवेत् पापस्थानं सेवेत कथयेच्च हे भगवन्! अहममुकं प्रायश्चित्तस्थानमापन्नः, ततस्तस्य 'सेवि' तदपि तत्संबन्ध्यपि प्रायश्चित्तम् 'कसिणे' कृत्स्नम् सबै पूर्वसेवितं सम्प्रति सेवितं चेति द्वयमपि 'तत्येव' तत्रैव परिहारतपस्येव 'आरुहियव्वे सिया' आरोपयितव्यं स्यात् सर्वं संमेलनीयमित्यर्थः, अत्र पापस्थानस्य पूर्वपश्चात्सेवनाविषयां चतुभङ्गीं दर्शयितुमाह- 'पुव्वि' इत्यादि, 'पुव्वि पडिसेवियं पुवि आलोइयं' पूर्व प्रतिसेवितं - पूर्वमालोचितम् १, अत्र पूर्वमित्यत्र पदैकदेशे पदसमुदायोपचारात् पूर्वानुपूर्व्या इति ज्ञातव्यम्, ततश्चायमर्थः-- गुरुलघुपर्यालोचनया पूर्वानुपूर्व्या लघुपश्चकादिक्रमेण यत् प्रतिसेवितम् तत् पूर्वं पूर्वानुपूर्व्या प्रतिसेवनानुक्रमेण आलोचितमिति प्रथमो भङ्गः १ । द्वितीयभङ्गमाह - 'पुव्वि पडिसेवियं पच्छा आलोइयं' पूर्वं प्रतिसेवितं पश्चादालोचितम् - पूर्वं गुरुलघुपर्यालोचनया पूर्वानुपूर्व्या मासलघुकादि प्रतिसेवितम् तदनन्तरं च तथाविधाल्पप्रयोजनोत्पत्तौ प्रमादादिना गुरुलघुपर्यालोचनयैव लघुपचकादि प्रतिसेवितम् आलोचनासमये च पश्चात् - पश्चानुपूर्व्या आलोचितम् - यथापूर्व लघुपञ्चकायालोचितम् पश्चात् लघुमासिकादिकमालोचितमिति द्वितीयो भङ्गः २ । अथ तृतीयभङ्गं दर्शयितुमाह- 'पच्छा पडिसेवियं' इत्यादि 'पच्छा पडिसेवियं पुवि आलोइयं' पश्चात्प्रतिसेवितं पूर्वमालोचितम्, तत्र पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्व गुरुमासादिकं प्रतिसेवितम् पश्चात् लघुपञ्चकादीति आलोचनासमये आनुपूर्व्या नालोचितम् पूर्व लघुपञ्चकाद्यालोचितम् पश्चात् तदनन्तरं गुरुमासादिकमालोचितमिति तृतीयो भङ्गः ३ । अथ चतुर्थभङ्गमाह - 'पच्छा पडिसेवियं' इत्यादि । 'पच्छा पडिसेवियं पच्छा आलोइयं' पश्चात्प्रतिसे वितं पश्चादालोचितम्, तत्र पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनादिविरहितं यथाकथंचन प्रतिसेवितमिति पश्चात् पश्चानुपूर्व्या आलोचितं प्रतिसेवनानुक्रमेणैव आलोचितम्, अथबा स्मृत्वा स्मृत्वा यथाकथंचनापि आलोचितमिति चतुर्थो भङ्गः ४ । अत्र प्रथमचतुर्थभङ्गौ अप्रति कुञ्चनायाम्, द्वितीयतृतीयभङ्गौ तु प्रतिकुश्ञ्चनायामिति अप्रतिकुश्चित - प्रतिकुञ्चिताभ्यामियं चतुर्भङ्गीकृतेति । तामेव अप्रतिकुचि अप्रतिकुञ्चितम् इत्येतद्विषयां चतुर्भङ्गीं दर्शयितुमाह- 'अपलिउंचिए अपउिंचियं' इत्यादि, 'अपलिउंचिए अपलिउंचियं' अप्रतिकुञ्चिते अप्रतिकुञ्चितम, यदा स्खलु अतिचारान् प्राप्तवान् आलोचनाकाले मालोचनाभिमुखो भवेत्तदा स एवं संकल्पयति यथा ये केचन मयि अतिचाराः जातास्ते सर्वेऽपि अतिचारा मया आलोचनीयाः न कोऽपि गोप ५६ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy