SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथसू नीयः एवं पूर्वसंकल्पकाले अप्रतिकुचिले आलोचना समये अप्रतिकुंचितमेव आलोचयतीति प्रथमो १ अथ द्वितीयभङ्गमाह--अप लिउत्रिए पलिउंचियं' इति, 'अपलिउंचिए पलिउंचिय' प्रतिकुञ्चिते प्रतिकुचितम् यथा- पूर्व संकल्पकाले आलोचनाविचारकाले अप्रतिकुञ्चितम् - निष्कपभावेन समुपस्थितः आलोचनासमये तु प्रतिकुञ्चितं कपटभावेन आलोचयतीति द्वितीयो भङ्गः २, अथ तृतीयभङ्गमाह 'पलिउंचिए अपलिउंचिथं' प्रतिकुञ्चिते अप्रतिकुञ्चितम् पूर्वसंकल्पकाले प्रतिकुञ्चितम् यथा मया न सर्वे अतिचारा आलोचनीयाः एवंप्रकारेण वूर्वसंकल्पकाळे प्रतिकुञ्जिते आलोचनासमये अन्तःकरणस्य परावर्तनात् अप्रतिकुञ्चितम् - कपटरहितं यथा स्यात् तथा आलोचयतीति तृतीयो भङ्गः ३ । अथ चतुर्थभङ्गमाह - 'पलिउंचिए पलिउंचियं' प्रतिकुञ्चिते प्रतिकुञ्चितम् पूर्वसंकल्पकाले पापस्थान्प्रतिसेवकेन प्रतिकुञ्चितं यथा मया न सर्वे अपराधा आलोचनीयाः, तत एवंप्रकारेण संकल्पकाले प्रतिकुंचिते ततः आलोचनाकरणसमयेऽपि प्रतिकुचितं कपटमेव आलोचयतीत्येष चतुर्थो भङ्गः ४ । एषु चतुर्षु भङ्गेषु मध्ये यत् 'अपळिउंचिए अपलिउचियं अप्रतिकुञ्चिते अप्रतिकुचितम् पूर्व संकल्पकाले निष्कपटेन संकल्पितम् आलोचना ग्रहणकालेऽपि निष्कपटपूर्वकम् 'आलो एमापस्स' आलोचयतः, ततश्चायमर्थः - यावन्तोऽतिचाराः प्रतिसेविताः तान् सर्वानेव निरवशेषमालोचयतः श्रमणादे: 'सव्वमेयं' सर्वमेतत् यत् यदा यत्तदपराजातम्, यदि वा कथमपि प्रतिकुञ्चता कृता स्यात् ततः प्रतिकुञ्चनानिष्पन्नं यच्च गुरुणा सहालोचनाकाले उच्चासन तुल्यासनोपवेशनादिजनितं तथा याच आलोचनासमये असमा चारी सेविता तन्निष्पन्नं च सकलमेतत् अपराधकारिणा प्रायश्चित्त प्रतिसेवकेन श्रमणादिना 'सक्रयं' स्वकुलम् - स्वयमेव आत्मना प्रतिसेवितम् आत्मनैव कृतम् 'साहणिय' संहृत्य - एकत्र मील मिल्ला, तथा पुनश्च 'जं एयाए' यत् एवया अनन्तरपूर्वकथितया षाण्मासिक्या एकमासिकादिक्रया वा 'पट्टवणार' प्रस्थापनया पूर्वकाले कृतस्यातिचारस्य विषये या प्रस्थापना प्रायचित्तदानरूपा तथा प्रस्थापनमा 'पट्टविए' प्रस्थापितः - प्रायश्चित्त करणे नियोजितः 'निव्विसमाणे' निर्विशमान: तपसो निस्सरन् प्रायश्चित्तस्य चरमं तपः सेवमानः तपः समाप्य ततो निवर्त्तयनित्यर्थः यत् पुनः प्रमादतो विषयकषायादिभिर्वा 'पडि सेवई' प्रतिसेवते - पापस्थानस्य प्रतिसे वनां करोति तस्यां प्रतिसेवनायां यत् प्रायश्चित्तं प्राप्यते 'सेवि कसिणे' तदपि कृत्स्नम् - तदपि सबै प्राश्चित्तम् 'तत्येव' तत्रैव पूर्व प्रस्थापिते एव प्रायश्चित्ते 'आरुहियन्त्रे सिया' आरोपयितव्यं स्यात् सर्वमेकत्र संमेलनीयमित्यर्थः ।। सू० १७ ॥ सूत्रम् — जे भिक्खू बहुसोवि मासियं वा, बहुसोवि साइरेगमान्सियं वा बहुसोवि दोमासि वा बहुसोवि साइरेगदोमासियं वा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy