________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४०....
.
निशीथसत्रे
छाया-यो भिक्षुर्मासिकं वा सातिरेकमासिकं वा द्वैमासिकं वा सातिरेकद्वैमासिकं वा त्रैमासिकं वा सातिरेकत्रैमासिकं वा चातुर्मासिकं वा सातिरेकचातुर्मासिक वा पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा एतेषां परिहारस्थानानामन्यतमं परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्त्यं स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैव आरोपयितव्यं स्यात् , पूर्व प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पश्चादालोचितम् २, पश्चात्प्रतिसेवितं पूर्वमालोचितम् ३, पश्चात्प्रतिसेवितं पश्चादालोचितम् ४, अपरिकुञ्चिते अपरिकुञ्चितम् १, अपरिकुञ्चिते परिकुञ्चितम् २, परिकुञ्चिते अपरिकुञ्चितम् ३, परिकुञ्चिते परिकुञ्चितम् ४; भपरिकुञ्चिते अपरिकुञ्चितमालोचयतः सर्वमेतत् स्वकृतं संहत्य यत् एतया प्रस्थापनया प्रस्थापितो निर्विशमानः सन् प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोपयितव्यं स्थात् ॥ सू० १७ ॥
चूर्णी-यः खलु प्रायश्चित्तकरणसमये पुनरपि पापस्थानं प्रतिसेवते तमधिकृत्य सूत्रमिदं प्रवर्तते-'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'मासियं वा मासिकं धा 'साइरेगमासियं वा' सातिरेकमासिकं वा किञ्चिदधिकैकमासेन संपादितम् , एवं द्वैमासिकं वा सातिरेकद्वैमासिकं वा, त्रैमासिकं वा सातिरेकत्रैमासिकं वा, चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा अतिरेकेणाऽधिकेन पञ्चदिनाद्यधिकेन सहितं चातुर्मासिमिति सातिरेकचातुर्मासिकम् , एवम् 'पंचमासियं वा' पाञ्चमासिकं वा 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं वा मासपञ्चकात् किञ्चिदधिकं परिहारस्थानम् ‘एएसि' एतेषां पूर्वोक्तानाम् 'परिहारद्वाणाणं' परिहारस्थानानां मध्यात् 'अन्नयरं' अन्यतमं यत् किमपि अन्यतममेकं 'परिहारहाणं' परिहारस्थानम् प्रायश्चित्तस्थानम् 'पडिसेवित्ता' प्रतिसेव्य उपर्युक्तपापस्थानमध्यात् यस्य कस्याप्येकस्य परिहारस्थानस्य प्रतिसेवनां कृत्वा 'आलोएज्जा' आलोचयेत् तादृशपापस्थानं प्रकटीकुर्यात् , तत्र 'अपलिउंचिय आलोएमाणस्स' अपरिकुच्य मायामकृत्वाssलोचयतः आलोचनां कुर्वतः श्रमणादेः । इदं खल्लु सूत्रं परिहारनामकप्रायश्चित्ततपसः प्रतिपादकम् अतस्तस्य परिहारनामकतपसो विधिमाह-'ठवणिज्ज' इत्यादि, 'ठवणिज्ज ठावइत्ता' स्थापनीयं स्थापयित्वा, तत्र अपरिकुच्यालोचयतः परिहारतपसो दानसमये आचार्यः तस्मै तादृशं विधिमुपदर्शयति-यः खलु प्रतिसेवकः परिहारतपसः प्रायश्चित्तस्थानं प्राप्तवान् स परि. हारनामकतया ग्रहणाय सर्वेषां श्रमणश्रमणोजनानां परिज्ञानाय सकलगच्छसमक्षं निरुपसर्गनिमित्तकं कायोत्सर्ग पूर्व करोति तस्य प्रतिसेवकस्य कायोत्सर्गकरणानन्तरम् आचार्यः प्रतिसेवकं प्रति कथयति त्वं परिहारी, अहं कल्पस्थितोऽतो यावत्तव तपः पूर्ण भविष्यति तावदहं वाचनादिरूपं साहाय्यं करिष्यामीति, अन्यो वाऽनुपारिहारिकस्तव वाचनादिसाहाय्यं करिष्यति, अन्यो वाऽनुपारिहारिकस्तव वैयावृत्यं करिष्यति, इत्येवंरूपेण 'ठवणिज्ज' स्थापनीयम्-साहाय्याद्यर्थस्थाप
For Private and Personal Use Only