________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णिमा यावचूरिः उ० २० सू०१७ मासिकादिपरिहारस्थानतिसेवनप्रायश्चित्तविधिः ४३९ भाष्यम्- एसा रीई आरिय,-गणहरमाइहिं भासिया मुत्ते ।
पंच गमा णायब्वा, बहुसोवि य सेवणाविसए ॥ छाया--एषा रीतिः आर्यगणधरादिभिर्भाषिता सूत्रे ।
पञ्च गमा ज्ञातव्याः, बहुशोऽपि च सेवनाविषये ॥ अवचूरिः -- 'एसा' एषा-पूर्वोक्तसूत्रप्रोक्ता 'रीई रीतिः प्रकारः 'आरियगणहरमाइहिं' आर्यगणधरादिभिः तीर्थकरगणधरादिभिः 'मुत्ते' सूत्रे-आगमे 'भासिया' भाषिताप्ररूपिता, कुत्र विषये ? इत्याह–'बहुसोवि य सेवणाविसए' बहुशोऽपि-बहुवारानपि सेवनाविषयेसेव्यमानपापस्थानविषये 'पंच गमा' पञ्च गमाः-सूत्रप्रकाराः 'णायव्वा' ज्ञातव्या इति । अयं भाव:प्रायश्चित्तदानं च द्रव्यक्षेत्रकालभावाद्याश्रित्य सेवितुः परिणामविशेषं च विचिन्त्यैव भवति, यथाअनेन द्रव्यक्षेत्रादिविषये कीदृशं कारणविशेषमाश्रित्य पापस्थानं सेवितमित्यादि, तथा-पापस्थानसेवनसमयेऽस्य कीदृश आत्मपरिणाम आसीदित्यादि, तथा प्रतिसेवकस्य-ऋजुजड-वक्रजडादित्वमपि विचारणीयं भवेत् , गीतार्थागीतार्थत्वादिकम् आभोगानाभोगादिकं च भावनीयं भवेत् , इत्याधनेककारणानि विभाव्यैव तीर्थकरगणधरादिभिरेषा रीतिः प्ररूपितेति नात्र किमपि शङ्कास्थानं तेषामनन्तज्ञानित्वादिति ॥ सू०१६॥
सूत्रम्-जे भिक्खू मासियं वा साइरेगमासियं वा दोमासियं वा साइरेगदोमासियं वा तेमासियं वा साइरेगतेमासियं वा चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा एएसि परिहारट्ठाणाणं अन्नयरं परिहारठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स ठवणिज्ज ठावइत्ता करणिज्जं वेयावडियं गविए वि पडिसेवित्ता से विकसिणे तत्थेव आरुहियव्वे सिया पुन्विं पडिसेवियं पुब्बिं आलोइयं १ पुब्विं पडिसेवियं पच्छा आलो इयं २ पच्छापडिसेवियं पुब्बिं आलोइयं ३ पच्छा पडिसेवियं पच्छा आलोइयं ४, अपलिउंचिए अपलिउंचियं १, अपलिउंचिए पलिउंचियं २, पलिउंचिए अपलिउंचियं ३, पलिउंचिए पलिउंचियं ४, अपलिउचिए अपलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जं एयाए पट्ठवणाए पट्टविए निविसमाणे पडिसेवेइ से विकसिणे तत्थेव आरुहियव्वे सिया ॥१७॥
For Private and Personal Use Only