________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४३८
निशीथसूत्रे
छाया - यो भिक्षुर्बहुशोऽपि मासिकं वा बहुशोऽपि सातिरेकमासिकं वा बहुशोsपि द्वैमासिकं वा बहुशोऽपि सातिरेकद्वैमासिकं वा बहुशोऽपि त्रैमासिक वा बहुशोऽपि सातिरेक त्रैमासिक वा बहुशोऽपि चातुर्मासिक वा बहुशोऽपि सातिरेकचातुमासिक वा बहुशोsपि पाञ्चमासिक वा बहुशोऽपि सातिरेकपाञ्चमासिक वा एतेषां परिहारस्थानानामन्यतमं परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतः बहुशोपि मासिकं वा बहुशोपि सातिरेकमासिक वा बहुशोऽपि द्वैमासिक वा बहुशोऽपि सातिरेकद्वैमासिकं या बहुशोऽपि त्रैमासिक वा बहुशोऽपि सातिरेकत्रैमासिकं वा बहुशोऽपि चातुर्मासिकं वा बहुशोऽपि सातिरेकचातुर्मासिकं वा बहुशोऽपि पाञ्च मासिकं वा बहुशोऽपि सातिरेकपाञ्चमासिक वा परिकुच्य आलोचयतः बहुशोऽपि द्वैमासिक वा बहुशोऽपि सातिरेकद्वैमासिक वा बहुशोऽपि त्रैमासिक वा बहुशोऽपि सातिरेकत्रैमासिक वा बहुशोवि चातुर्मासिक वा बहुशोपि सातिरेकचातुर्मासिक वा बहुशोऽपि पाञ्च मासिक वा बहुशोऽपि सातिरेकपाञ्चमासिकं वा बहुशोऽपि षाण्मासिक वा ततः परं परिकुञ्चिते वा अपरिकुञ्चिते वा ते एव षण्मासाः ॥ सू०१६ |
Acharya Shri Kailassagarsuri Gyanmandir
1
चूर्णी 'जे भिक्खू' इत्यादि । व्याख्या स्पष्टा, नवरम् - बहुश इति त्र्यादिप्रभृत्यनेकवारमिति वाच्यम् । अत्र शिष्यः प्रश्नयति-सूत्रे यदुक्तम् - षाण्मासिकप्रायश्चित्तादुपरि '.... ते चैव छम्मासा' ते एव षण्मासाः नाधिकमिति, तत् कुतो नाषिकं प्रायश्चित्तं वर्त्तते यथा मासिक परिहारस्थानप्रतिसेवनानिमित्तकप्रायश्चित्तावसरे सकपटस्य द्वैमासिकप्रायश्चित्तविधानं कृतम् तथा षण्मासप्रायश्चित्तावसरे सकपटस्य सप्तमासादिकं वक्तव्यम् किन्तु तथा न कृत्वा षण्मासावधिकमेव प्रायश्चित्तं प्रतिकुञ्चनाया अवतिकुञ्चनायाश्च विहितम् । एवमेव ' बहुसोवि मासि' इत्यादिसूत्रेष्वपि षण्मासावधिकमेव प्रायश्चित्तदानं विहितं तदत्र किं कारणम् इति चेत् अत्रोच्यतेसत्यम्, षण्मासादधिकं प्रायश्वित्तं प्रतिकुञ्चिताय वक्तव्यम् किन्तु इह जीतकल्पोऽयम् । अयं भावः यस्य तीर्थकरस्य ऋषभादेः यावत्प्रमाणकम् उत्कृष्टं तपःकरणम्, तस्य तीर्थकरस्य शासनेऽन्यसाधूनामुत्कृष्टं प्रायश्चित्तदानं तावत्प्रमाणकमेव न ततोऽधिकं कदाचिदपि दातव्यं भवेत्, ततोऽन्तिमतीर्थकरस्य भगवतो महावीरस्वामिन उत्कृष्टं तपः षाण्मासिकम्, ततो महावीरस्वामिनः शासने सर्वोत्कृष्टं प्रायश्चित्तदानं षाण्मासिकमेवेति बोध्यम् ।
तीर्थकर ऋषभदेलस्वामिनः शासने द्वादशमासिकं प्रायश्चित्तमासीत् भगवता आदिनाथेन द्वादशमासिकतपसः समाचरितत्वात् । मध्यमानां द्वाविंशतितीर्थकराणां शासने तु अष्टमासिकमेव प्रायश्चितम् तत्र तपःकरणस्य तथाप्रमाणत्वात् इति । अत्र महावीरशासने तु षाण्मासिकपरिहारस्थान प्रतिसेवनयाऽपि आलोचनां कुर्वतो नाधिकमारोपणम्, अतस्तदेव - षाण्मासिकमेव प्रायश्चित्तं नाधिकमिति, अत्राह भाष्यकार:--
"
"
For Private and Personal Use Only