________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६
निशीथसूत्रे
छाया -- यो भिक्षुः प्रातिहारिकीं सूचीं याचित्वा वस्त्रं सीविष्यामि इति पात्रं सीव्यति सीव्यन्तं वा स्वदते ॥ ३२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णी - 'जे भिक्खू' इत्यादि 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः 'पाडिहारियं' प्रातिहारिकीम्, 'सूई' सूची कार्ये कृत्वा पुनः परावर्तयिष्यामीति कथयित्वा नयति - तादृशसूचीग्रहणं प्रातिहारिकसूचीग्रहणम् । तादृशीं सूचीं ' जाइत्ता' याचित्वा 'वत्थं सीविस्सामित्ति' वस्त्रं सीविष्यामीति अनया नीयमानया सुच्याऽहं वस्त्रस्य संधानं करिष्यामीति कथयित्वा आनीतया तया 'पायं सिव्बइ' पात्रं सौव्यति, यदि कथिताद्वस्तुनोऽन्यद्वस्तु सीव्यति, 'सिव्वंतं वा साइज्जइ' सीव्यन्तं वा संदधन्तं वा स्वदतेऽनुमोदते स भाषासमित्या स्खलितः प्रायश्चित्तभागिति ॥ सू० ३२ ॥
सूत्रम् - जे भिक्खू पाडिहारियं पिप्पलगं जाइत्ता वत्थं छिंदिस्सामि त्ति पायं छिंदइ, छिंदतं वा साइज्जइ ॥ सू० ३३ ॥
छाया -यो भिक्षुः प्रातिहारिकं पिप्पलकं याचित्वा वस्त्रं छेत्स्यामीति पात्रं छिनत्ति छिन्दन्तं वा स्वदते || सू० ३३ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमण: 'पाडिहारियं' प्रातिहा - रिकं - कार्यानन्तरं परावर्त्तनीयम् 'पिप्पलगं' पिप्पलकम् - लोहमयशस्त्रविशेषं कर्त्तरिकादिकं ' जाइत्ता' 'याचित्वा 'वत्थं छिंदिस्सा मि' वस्त्रं छेत्स्यामि इति कृत्वा, 'पायं छिंदइ' पात्रं छिनत्ति, छेदयति वा, 'छिंदतं वा साइज्जइ' छिन्दन्तं वा स्वदतेऽनुमोदते इति पूर्ववत् ॥ सू० ३३ ॥
सूत्रम् -- जे भिक्खू पाडिहारियं नहच्छेयणगं जाइत्ता नहं छिंदिस्सामिति सल्लुद्धरणं करेइ, करेतं वा साइज्जइ ॥ सू० ३४ ॥
छाया - यो भिक्षुः प्रातिहारिकं नखच्छेदनकं याचित्वा' नखं छेत्स्यामि इति शल्योद्धरणं करोति कुर्वन्तं वा स्वदते ॥ सु० ३४ ॥
चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः 'पाडिहारियं' प्रातिहारिकं पुनः परावर्त्तयिष्यामीति कथयित्वा 'नहच्छेयणगं' नखच्छेदनकं नखकर्त्तनसाधनम् | ' जाइत्ता' याचित्वा 'नहं छिंदिस्यामिति' नखं छेत्स्यामि इति कृत्वा आनीतवान् । किन्तु तेन 'सल्लु - द्धरणं करे' शल्योद्धरणं करोति, कारयति ' करें वा साइज्जइ' कुर्वन्तं वा स्वदते - अनुमोदते इति पूर्ववत्प्रायश्चित्तभाक् सः ॥ सू० ३४ ॥
सूत्रम् - जे भिक्खू पाडिहारियं कण्णसोहणगं जाइत्ता कण्णमलं णीहरिस्सामिति दंतमलं वा नखमलं वा णीहरेइ णीहरंतं वा साइज्जइ ॥सू०३५॥
For Private and Personal Use Only