________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावरिः उ० १ सू० ३६-४० अविधिसूचीप्रत्यर्पण-पात्रपरिघट्टनादिनिषेधः १७
छाया-यो भिक्षुः प्रातिहारिकं कर्णशोधनकं याचित्वा, कर्णमलं निहरिष्यामीति दन्तमलं वा नखमलं वा निर्हरति, निर्हरन्तं वा स्वदते ॥ सू० ३५ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः 'पाडिहारियं' प्रातिहारिकम् 'कण्णसोहणगं' कर्णशोधनकम् 'जाइत्ता' याचित्वा 'कण्णमलं णीहरिस्सामित्ति' कर्णमलं निर्हरिष्यामीति कथयित्वाऽऽनीतेन तेन दन्तमलं वा स्वेच्छया नखमलं वा 'णीहरेई' निर्ह रति, निहारयति, ‘णीहरंतं वा साइज्जइ' निर्हरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभार भवतीति ॥ सू० ३५ ॥
अत्राह भाष्यकारःभाष्यम्-सीविस्सं वत्थमेएणं, वत्थं पायं च सिव्वइ ।
सिविस्सामि च पायं वा, वत्थगं खलु सिवइ ॥ गिही सयं वा दणं, सुणित्ता विमणो हवे ।
खिसणं वा परस्सग्गे, कुज्जा अणायरं तहा ॥ छाया-सीविष्यामि वस्त्रमेतेन वस्त्रं पात्रं च सीव्यति ।
सिविष्यामि च पात्रं वा वस्त्रकं खलु सीव्यति । गृही स्वयं वा दृष्ट्वा श्रुत्वा विमना भवेत् ।
निन्दनं वा परस्याने कुर्यादनादरं तथा ॥ अवचूरिः–'सीविस्सं' इत्यादि । अहं भवत्प्रदत्तेन-एतेन सूच्यादिना वस्त्रं सीविष्यामि, इत्युक्त्वाऽऽनीतेन साधनेन सूचीसाधनेन वस्त्रं ततोऽन्यत् पात्रं च सीव्यति । एवमेव-पात्रं वा सीविष्यामीति कथयित्वाऽऽनीतेन तेन खल वस्त्रकं सीव्यति । गृही एवं सूचीद्वारा पात्रादिकं सीव्यन्तमेनं साधु कदाचित्स्वयं दृष्ट्वा परमुखाद्वा श्रुत्वा 'विमणो' विमनाः मनोवकृतिमान् भवेत् वा-अथवा परस्य-साधोर्गृहस्थस्य वा अग्रे-समक्षं तस्य साधोनिन्दनं तथा-अनादरं यदि कुर्यात् तदा मृषाभाषणेन द्वितीयमहाव्रतस्य भङ्गकरणात् संयमात्परिभ्रष्टः सन् शासनलघुतां कारयेत्साधुः, अतः साधुभिरेवं न कर्त्तव्यम् ।। सू० ३५॥
सूत्रम्-जे भिक्खू अविहीए सूई पञ्चप्पिणइ पच्चप्पिणंतं वा साइज्जइ ॥ सू० ३६॥
छाया-यो भिक्षुरविधिना सूची प्रत्यर्पयति, प्रत्यर्पयन्तं वा स्वदते ॥ सू० ३६ ॥
For Private and Personal Use Only