________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसत्रे
M
स प्रायश्चित्तभागी भवति । तानेव महामहान् प्रदर्शयति-'तं जहा' इत्यादि । 'तं जहा' तद्यथा'दमहे' इन्द्रनामकदेवस्य महोत्सवे चैत्रीपूर्णिमायां जायमाने 'खंदमहे' स्कन्दमहे स्कन्दः कार्तिकेयः, तस्य महोत्सवे आषाढ़ी पूर्णिमायां जायमाने 'जक्खमहे' यक्षमहे-यक्षमहोत्सवे-आश्विनीपूर्णिमायां जायमाने 'भूयमहे' भूतमहे-व्यन्तरदेवमधिकृत्य जायमाने महोत्सवे-कार्तिकीपूर्णिमायां जायमाने, उपर्युक्तमहोत्सवचतुष्टयसमये यावत् महोत्सवस्यान्तिमः समयो भवति तावदित्यर्थः तत्स्थाने च यः श्रमणः श्रमणी वा स्वाध्यायं समाचरति तथा समाचरन्तमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ११॥
सूत्रम्-जे भिक्खू चउसु महापडिवएसु सज्झायं करेइ करेंतं वा साइज्जइ। तं जहा-सुगिम्हियपाडिवए, आसाढीपाडिवए, आसोईपाडिवए, कत्तियपाडिवए ॥ सू० १२॥
छाया-यो भिक्षुश्चतसृषु महामतिपत्सु स्वाध्यायं करोति कुर्वन्तं वा स्वदते तद्यथा-सुग्रीस्मिकप्रतिपदि, आषाढीप्रतिपदि, आश्विनीप्रतिपदि, कार्तिकीप्रतिपदि सू० १२
चूर्णी-'जे भिक्खू' इत्यादि । 'जेभिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'चउसु महापडिवएम, चतसृषु महाप्रतिपत्सु पूर्वीकचतुर्महोत्वानामनन्तरं जायमानासु बहुलप्रतिपत्सु 'सज्झायं करेइ' स्वाध्याय-सूत्रार्थतदुभयस्य अध्ययनं करोति तथा 'करेंतं वा साइज्जइ' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति, तत्र काः ताः महाप्रतिपदः यासु स्वाध्यायस्य प्रतिषेधः क्रियते ? तत्राह-'तं जहा' इत्यादि । 'तं जहा' तद्यथा-'मुगिम्हियपाडिवए' सुग्रीष्मिकप्रतिपदि चैत्रशुक्लपूर्णिमाया अनन्तरं जायमानायां वैशाखकृष्णप्रतिपदि, 'आसाढीपाडिवए'आषाढीप्रतिपदि आषाढसम्बन्धिप्रतिपदि आषाढशुक्लपूर्णिमाया अनन्तरं जायमानायां श्रावणकृष्णप्रतिपदि, एवम् 'आसोईपाडिवए' आश्विनीप्रतिपदि-आश्विनपूर्णिमाया अनन्तरं जायमानायां कार्तिक कृष्णप्रतिपदि कत्तियपाडिवए' कात्तिकोप्रतिपदि कार्त्तिकपूर्णिमाया अनन्तरं जायमानायां मार्गशीर्षकृष्णप्रतिपदि । एतासु पूर्वोक्तासु चतसृषु प्रतिपत्सु देवा गमनागमनं कुर्वन्ति शास्त्र. स्य देवानां च भाषा एकैवेति यदि एतासु तिथिषु अध्ययनं करिष्यन्ति तदा यदि तत्राशुद्धमुच्चारणं स्यात् तदा रुष्टास्ते देवा विघ्नं करिष्यन्तीति कृत्वा एत्तासु तिथिषु स्वाध्यायस्य निषेधः कृतो भवति ॥सू० १२॥
सूत्रम्--जे भिक्खु पोरिसिं सज्झायं उवाइणावेइ उवाइणावेतं वा साइज्जइ ॥ सू० १३ ॥
छाया-यो भिक्षुः पौरुषी स्वाध्यायीमतिकामति अतिक्रामन्तं वा स्वदते ॥ सू० १३॥
For Private and Personal Use Only