SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० १९ सू० १३-१६ कालानपेक्षस्वाध्यायकरणाकरणनिषेधः ४२१ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'पोरिसिं' पौरुषीम् अहोरात्रयोः प्रथमचरमकालभावित्वेन चनुर्विधां पौरुषीम्, कथम्भूताम् ! 'सज्झायं' स्वाध्यायी-स्वाध्याययोग्यां, यतः कालिकश्रुतस्य अहोरात्राभ्यन्तरे चतुःपौरुषीरूपाश्चत्वारः स्वाध्यायकाला भवन्ति तादृशीः स्वाध्याययोग्याश्चतस्रः पौरुषीः चतुःसंख्यकाः पौरुषोरित्यर्थः, 'उवाइणावेई' अतिक्रामति पौरुषीकाले स्वाध्यायं न करोति. तथा 'उवाइणावेतं वा साइज्जइ' पौरुषीकालिकस्वाध्यायमतिक्रामन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । तदेव विशपते-दिवसस्य प्रथमचरमकालभाविन्यौद्ध पौरुष्यो, एवं रात्रेः प्रथमचरमकालभाविन्यौ द्वे पौरुष्यो, एवमहोरात्रमध्ये चतस्रः पौरुष्यो भवन्ति, एतासु चतसृष्वेव पौरुषीषु कालिकश्रुतस्य स्वाध्यायो गुणनं वा भवितुमर्हति, अन्यासु अहोरात्रसम्बधिद्वितीयतृतीयरूपासु चतसृषु पौरुषीषु एवं क्रमः-दिवसस्य द्वितीयपौरुष्यामुत्कालिकथुतस्य ग्रहणं ध्यानं वा कुर्यात्, अर्थ वा शृणुयात् । तृतीयपौरुध्यां भिक्षार्थहिण्डनं, तदभावे उत्कालिकश्रुतस्य पठनं पूर्वगृहीतस्य गुणनं तदर्थश्रवण वा कुर्यात् । एवं रात्रेदितीयपोरुभ्यामुत्कालिकश्रतस्य ग्रहणं ध्यानमर्थश्रवणं वा कुर्यात्, तृतीयपौरुष्यां निदां तन्मोक्षं च कुर्यात् , अथवोत्कालिकस्य ग्रहणं गुणनं वा कुर्यात् । उक्तंच शास्त्रे-“पढमे पोरिसी समायं, बीए झाणं प्रियायइ । तइयाए भिक्खायरियं, चउत्थीए पुणोवि सज्झायं ॥१॥ पढमे पोरिसी समाय बीए झाणं झियायइ । तइयाए निद्दमोक्खं च, चउत्थीए पुणोवि सज्झायं ॥२॥” इति । छाया-प्रथमायां औरुष्यां स्वाध्याय, द्वितीयायां ध्यानं ध्यायति । तृतीयायां भिक्षाचर्या, चतुथ्यों पुनरपि स्वाध्यायम् ॥१॥ दिवसे । प्रथमायां पौरुष्या स्वाध्याय, द्वितीयायां ध्यान ध्यायति । तृतीयायां निद्रां तन्मोक्षं च (कुर्यात्) चतुथ्यों पुनरपि स्वाध्यायम् ॥रात्रौ॥ सूत्रम्-जे भिक्खू चउक्कालं सज्झायं न करेइ न करेंतं वा साइज्जइ ॥ सू०१४॥ छाया-यो भिक्षुश्चातुष्काल स्वाध्यायं न करोति न कुर्वन्तं वा स्वदते ॥ सू० १४॥ चूर्णी---'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'चउकालं' चातुष्कालम्-कालचतुष्टयसंबन्धिनं स्वाध्याय दिवसस्य प्रथमप्रहरे चरमप्रहरे च तथा राोः प्रथमप्रहरे चरमप्रहरे चेति अहोरात्रस्य कालचतुष्टये इत्यर्थः 'समायं न करेइ' स्वाध्यायं म करोति तथा ' न करेंतं वा साइज्जई' न कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥१४॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy