SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ०१९ सू० ९-१२ कालिकश्रुताद्यतिपृच्छा महामहादिस्वाध्यायनि० ४१९ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'कालियनुयस्स' कालिकश्रुतस्य, यत् श्रुतं काले नियतकाले एवाधीयते तत् कालिकश्रुतम्, यस्य श्रुतस्याध्ययनम् दिवसस्य रात्रेर्वा प्रत्येकं प्रथमान्तिमप्रहरे अस्वाध्यायकालं वर्जयित्वाऽध्यययनं क्रियते तत्कालिकश्रुतम् आचाराङ्गादिकम् तस्य, कालिकश्रुतस्य 'परं तिहं पुच्छाणं' परं तिसृणां पृच्छानाम् पृच्छात्रयादधिकम्, तत्र एकस्यां पृच्छायां सूत्रत्रयं भवति ततः पृच्छात्रये नव सूत्राणि भवन्ति ततश्च कालिकश्रुतस्य अकाले यत्र काले सूत्रं नाधीयते सोऽकालः, तस्मिन् नवसूत्रादधिकम् 'पुच्छइ' पृच्छति-पृच्छां करोति 'पुच्छत वा साईज्जइ' पृच्छन्तं वा श्रमणान्तरं स्वदते- अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ९ ॥ सूत्रम्--जे भिक्खू दिहिवायस्स परं सत्तण्हं पुच्छाणं पुच्छइ पुच्छंतं वा साइज्जइ ॥ सू० १०॥ छाया-यो भिक्षुदृष्टिवादस्य परं सप्तानां पृच्छानां पृच्छति पृच्छन्तं वा स्वदते ॥ स. १०॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'दिहिवायस्स' दृष्टिवादस्य द्वादशमङ्गं दृष्टिवादस्तस्य 'परं सत्तण्हं पुच्छाणं पुच्छई' परम्अधिकं सप्तानां पृच्छानाम्-सप्तपृच्छातोऽधिकम् तत्र-कालिकश्रुते एकस्यां पृच्छायां सूत्रत्रयं भवति, पृच्छात्रये च नव सूत्राणि भवन्ति, दृष्टिवादेऽपि एकस्यां पृच्छायाम् सूत्रत्रयं भवति सप्तपृच्छायां तु एकविंशतिः सूत्राणि भवन्ति ततश्च यथोक्तपृच्छातोऽधिकं यः श्रमणः श्रमणी वा आचार्यम् 'पुच्छइ' पृच्छति तथा 'पुच्छंतं वा साइज्जइ' पृच्छन्तं वा श्रमणान्तरं यः स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १०॥ सूत्रम्--जे भिक्खू चउसु महामहेसु सज्झायं करेइ करतं वा साइज्जइ।तं जहा-इंदमहे, खंदमहे, जक्खमहे, भूयमहे || सू०११॥ छाया-यो भिक्षुश्चतुषु महामहेषु स्वाध्यायं करोति कुर्वन्तं वा स्वदते । तद्यथाइन्द्रमहे, स्कन्दमहे, यक्षमहे, भूतमहे । सू० ११॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'चउसु. महामहेसु' चतुषु-चतुःसंख्यकेषु वक्ष्यमाणेषु महामहेषु-महामहोत्सवेषु, तत्र रन्धन-पचन-पाचनखादन-पान-नृत्य-गीत-प्रमोदादिरूपेषु ये महता समारोहेण महोत्सवाः ते महामहाः, तेषु महोत्सवेषु तादृशमहोत्सवसमये तत्स्थाने यः श्रमणः श्रमणी वा 'सज्झायं' स्वाध्याय सूत्रार्थतदुमयपठनरूपम् 'करेइ' करोति तथा 'करेंतं वा 'साइज्जइ' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy