________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे तस्य तादृशस्य ग्लानस्य अर्थाय प्रयोजनाय गाढागाढकारणमाश्रित्येत्यर्थः यदि विकृतदत्ते हणावश्यकता लक्ष्येत तदा एकद्वित्रिदत्तीग्रहीतुं कल्पते नाधिकमित्याह-'परं तिण्इं परं तिसृणाम् 'वियडदत्तीणं' विकृतदत्तीनाम् तत्र विकृतं-द्राक्षादिविकृत्या संपाद्यमानं विकृतिकारकत्वाद विकृतं तस्य विकृतस्य तिसृभ्यो दत्तिभ्योऽधिकम् , तत्र दत्तिरिति अविच्छिन्नं पतन्ती द्रवद्रव्यधारा गृह्यते, तथा च विकृतानामचित्तबहुमूल्यप्रपाणकद्राक्षासवकुमार्यासवादीनाम् अन्येषां वा तथाविध. द्रवपदार्थानां दत्तित्रयादधिकम् 'पडिग्गाहेइ' प्रतिगृह्णाति ग्लानप्रयोजनमासाद्य दत्तित्रयादधिक विकृतं स्वीकरोति. तथा-'पडिग्गाहेंतं वा साइज्जई' प्रतिगृहन्तं वा ग्लानप्रयोजनेनापि दत्तित्रयादधिकं गृह्णन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।
नात्र विकृतशब्दस्य मद्याद्यर्थः किन्तु विकृतस्य मद्यायों निशीथचूण्या लभ्यते, तद्ग्रहणविधिश्च, तथाहि-तत्र भाष्ये यदुक्तम्-"वितियपदं गेलण्णे, विज्जुवएसे तहेव सिक्खाए । एतेहि कारणेहि, जयणाए कप्पती घेत्तुं ॥६०३ ४। (पृ० २२० सन्मतिज्ञानपीठ आगरामुदित)
तच्चूर्णियथाः–'वेज्जोवए सेणगिलाणहा घेप्पेज कस्सति कोति वाही तेणेव उपसमति त्ति ण दोसो। गिलाणट्टा वा वेज्जो आणितो तस्सट्टा वा धिप्पेज्जा। पकप्पं वा सिक्खंतो गहणं करेज्जा ॥६०३४॥
छाया-द्वितीयपदम्-ग्लाने वैद्योपदेशे तथैव शिक्षायाम् । एतैः कारणैः वतनया कल्पते प्रहीतुम् ॥६०३४॥
वैद्योपदेशेन ग्लानाथ गृह्णीयात् कस्यापि कोऽपि व्याधिस्तेनैव उपशाम्पति इति न दोषः । ग्लानार्थ वा वैध आनीतः तस्यार्थ वा गृह्णीयात् , प्रकल्पं वा शिक्षन् ग्रहणं कुर्यात् ॥६०३४।। इति तन्मोहविजृम्भितम् । साधूनां तस्य सर्वथा निषिद्धत्वात् ।
अत्राह भाष्यकार:भाष्यम्-जो य भिक्खू गिलाणहा, तिहं दत्तीण जं परं ।
गिण्हेज्जा गाहएज्जा वा, आणाभंगाइ पावइ ॥१॥ छाया-यश्च भिक्षुग्लानार्थ तिसृणां दत्तीनां यत् परम् ।
गृहीयाद् प्राहयेद वा आक्षाभङ्गादि प्राप्नोति ।। अवचूरिः-- यश्च कश्चिद्भिक्षुः श्रमणः श्रमणी वा ग्लानार्थ कुक्षिशूलादिरोगवतः श्रमणस्य प्रयोजनाय यदि ग्रहणीयमापयेत तदा विसृणां विकृतदत्तीनाम् अचित्तद्रवसम्बन्धिनीनां परं त्रयादधिकं गृह्णीयात्-स्वीकुर्यात् ग्राहयेद् वाऽन्यद्वारा स श्रमणः श्रमणी वा आज्ञाभङ्गादिकं मिथ्यात्वं संयमविराधनामात्मविराधनां च प्राप्नोति, तथा दत्तित्रयादधिकग्रहणे लोकानां तदुपरि अविश्वासः
For Private and Personal Use Only