________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावचूरिःउ• १९ सू० ५-८ विकृतग्रहणगालन-चतुःसन्ध्यास्वाध्यायनिषेधः ४१७ स्यात् यथाऽयं प्रव्रजितो भूत्वाऽपि शास्त्राज्ञारहितदत्तित्रयादधिकं स्वीकरोतीति, तथा साधोलोभदशाऽपि प्रकटा भवति, तथा-ग्लानस्यातिमात्राग्रहणेनाऽसह्यतया शरीरऽन्यो रोगः समुत्पद्यते तेनाऽऽत्मविराधना, शरीरे विषयविकारोऽपि समुत्पद्यते तेन संयमविराधनाऽवश्यम्भाविनी, लोके च तद्विषये शङ्का जायते यदयमेतादृशवस्तुजातमधिकं विना कारणं शरीरपुष्टयर्थ भुङ्क्ते तेन ज्ञायतेऽयं कामी कामविषयमपि सेवते इति प्रतिभाति, तथाऽयं दरिद्रकुलोत्पन्नोऽस्ति येनाऽयं पूर्व स्वगृहे नैतादृशं वस्तु दृष्टवान् अतोऽधिकाहारलोलुपोऽस्तीत्येवं लोके निन्दा प्रवचनहोलना चापि भवति, इत्यादिकारणात् ग्लानार्थमपि दत्तित्रयादधिकं किमपि एतादृशद्रववस्तु न स्वयं गृह्णीयात् , वा परान् ग्राहयेत् न, वा गृह्णन्तं श्रमणान्तरमनुमोदयेदिति ॥ सू० ५ ॥
सूत्रम्-जे भिक्खू वियडं गहाय गामाणुगामं दूइज्जइ दूइज्जतं वा साइज्जइ ॥ सू०६॥
छाया-यो भिक्षुर्विकृतं गृहीत्वा प्रामानुग्रामं द्रवति द्रधन्तं वा स्वदते ॥ सू० ६॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वियर्ड गहाय' विकृतम्-अचित्तमपि प्रपाणकादिकम् एकस्मिन् ग्रामे गृहीत्वा अग्रे पानार्थ 'गामाणुगामं दइज्जई' ग्रामानुग्रामं द्रवति-एकस्माद्ग्रामात् क्रोशद्वयादूर्व प्रामान्तरं गच्छति तथा 'दइज्ज माणं वा साइज्जई' द्रवन्तं-गच्छन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह-भाष्यकार:भाष्यम्-कारणाकारणेहिं जो, गहाय वियर्ड जइ ।
गामाणुगामं दूइज्जा, आणाभंगाइ पावइ ॥१॥ छाया-कारणाकारणाभ्यां यः गृहीत्वा विकृतं यतिः ।
प्रामानुग्रामं द्रवेत् आज्ञाभङ्गादि प्राप्नोति ॥१॥ अवचूरिः-कारणाकारणाभ्यां-कारणतोऽकारणतो वा यो यतिः-साधुः अचित्तं विकृतं दवजातं प्रपाणकादिकं गृहीत्वा यत्र ऋतुबद्धं वसति वर्षावासं वा वसति तस्मिन् ग्रामे एवमसति लाभे अचित्तं प्रपाणकादिकं गृहीत्वा यदि यः श्रमणः श्रमणी वा प्रामानुग्रामं द्रवेत्-क्रोशद्वयादूर्ध्व गच्छेत्-स श्रमणः श्रमणी वा आज्ञाभङ्गादिदोषान् प्राप्नोति ।। सू० ६ ॥
सूत्रम्-जे भिक्खू वियडंगालेइ गालावेइ गालियं आहट्ट दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सु०७॥ ____ छाया-यो भिक्षुर्विकृतं गलति गालयति गालितमाहृत्य दीयमानं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ सू० ७ ॥
For Private and Personal Use Only