________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावरिः उ०१८ सू०-१.९ नौकाया आरोहणक्रयणादिनिषेधः ४०३
छाया-एवं यः चतुर्दशे उद्देशे प्रतिग्रहगमः सातव्यः यावद् आछेद्यम् अनिसृष्टम् अभिहतम् माहृत्य दीयमानं द्रोहति दोहन्तं वा स्वदते ॥सू० ३॥
चूर्णी-'एवं' इत्यादि । 'एवं' एवम् अनेन प्रकारेण नौक्रीणनरीत्या 'जो चउद्दसमे उद्देसे पडिगहगमों' यश्चतुर्दशे उद्देशे प्रतिप्रहगमः पात्रग्रहणगमकः प्रोक्तः 'से णेयन्नो' सोऽत्र नौकाविषये ज्ञातव्यः-वक्तव्यः, कियत्पर्यन्तमित्याह-'जाव' यावत् 'अच्छेञ्ज' मान्छेषां कस्यापि हस्तादाच्छिय स्थापितां 'अणिसिटू' भनिसृष्टां नौकां स्वामिनाऽदत्तां तत्स्वामिन अज्ञामन्तरेण गृहीताम् 'अभिहडं' अभिहतां-स्थानान्तरात् मानीताम् 'आटु दिज्जमाणं' हत्य-संमुखमानीय दीयमानां नावम् 'दुरूहइ' दूरोहति-आरोहति 'दुरुहंत वा साइज्जई' दूरोहन्तं-नावमधिरोहन्तं श्रमणान्तरं स्वदते स प्रायश्चित्तभागी भवति । मत्र सूत्रे 'जाव' इति यावत्पदेन “जे भिक्खू' नावं पामिच्चेइ नावं परियटेई' इति सूत्रद्वयं संग्राह्यम् अर्थस्तत्रैव चतुर्दशोदेके द्रष्टव्य इति । विशेषस्तावदेतावानेव यत्-चतुर्दशोदेशके प्रतिग्रहशब्दः प्रोक्तः, अत्र तु 'नौ' शब्दं प्रयोज्य आलापका विधातव्या इति ॥
भत्राह भाष्यकार:भाष्यम्- 'जो कीणइ सयं णावं, पामिच्चाइयमारुहे ।
आणाभंगाइ पावेइ, मिच्छत्तं च विराहणं ॥ छाया--यः क्रोणाति स्वयं नौकां प्रामित्यादिकामारोहेत् ।
आशाभङ्गादि प्राप्नोति मिथ्यात्वं च विराधनम् ।। अवचूरिः--यो भिक्षुः श्रमणः श्रमणी वा स्वयमेव नौकां क्रीणाति-मूल्यसमर्पणेन स्वात्माधीनां करोति अन्यद्वारा वा नौकायाः क्रयणं कारयति तथा प्रामित्यादिदोषदुष्टां नावमारोहेत पूर्वोक्तप्रकारां नौकामधिरोहति, मारोहन्तं नौकायामधिरोहणं कुर्वन्तं श्रनणान्तरमनुमोदते, स आज्ञाभङ्गमनवस्था मिथ्यात्वं संयमविराधनमात्मविराधनं च प्राप्नोतीति भाभ्यार्थः ॥ सू० ३-५ ॥
सूत्रम्--जे भिक्खू थलाओ नावं जले ओक्कसावेइ ओक्कसावेतं वा साइज्जइ ॥ सू० ६ ॥
छाया-यो भिक्षुः स्थलात् नावं जले अवकर्षयति अवकर्षयन्तं वा स्वदते ॥२०६॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'यलाओ' स्थलात्जलपार्श्वस्थभूमिभागात् तटादित्यर्थः ‘णावं' नावम्-नौकाम् ‘जले ओक्कसावेई' जले-नद्यादिजलप्रवाहे अवकर्षयति-अवतारयति स्थले विद्यमानां नौकां जले करोति-कारयति वा तथा
For Private and Personal Use Only