________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૦૨
निशीथसूत्रे साइज्जइ' दूरोहन्तं वा स्वदते, यो हि श्रमणः जलाशयपारगमनाय नौकामधिरोहति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥
अत्राह भाष्यकारः-- भाष्यम्--'णावारोहण साहुस्स अणटाए असेयसे ।
कोउहल्लेण नारोहे, नन्नत्यागाढकारणा ॥१॥ छाया-नौकाधिरोहणं साधोरनर्थाय अश्रेयसे ।
कौतूहलेन नारोहेत्, अन्यत्रागाढकारणात् ॥१॥ अवचूरिः-'साहुस्स' साधोः नावारोहण मनाय-अश्रेयसे अकल्याणाय च भवति तत्र षट्कायविराधनाया अवश्यम्मावात् , अथवा अनर्थाय-अप्रयोजनाय प्रयोजनं विना साधो
वारोहणम् अश्रेयसे-अमोक्षाय संसाराय भवत्येव अतः कौतूहलेन शब्दश्रवणादिकुतूहलमाश्रित्य साधुः कदापि नावं नारोहेत्, कदेव्याह-आगाहकारणादन्यत्र-गाढागाढकरणं विना नारोहेत् । तत्र गाढागाढकारणं च गुरुसेवाग्लानवैयावृत्यादिकम् ॥ सू० १ ॥
सूत्रम्-जे भिक्खू णावं किणइ किणावेइ कीयं आहदु दिज्जमाणं दुरूहइ दुरुहंतं वा साइज्जइ ॥ सू० २ ॥
छाया-यो भिक्षुः नौकां क्रीणाति-क्रापयति क्रोतमाहत्य दीयमानं दूरोहति दूरोहन्तं था स्वदते ॥ सू० २ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'णावंकिणइ' नौकां क्रीणाति-मूल्यं दत्वा स्वीकरोति 'किणावेई' कापयति - मूल्यं दत्वा अन्यद्वारा नौकायाः क्रयणं कारयति, तथा 'कीयं आहटु दिज्जमाणं' क्रीतमादृत्य दीयमानम् अन्यः कोऽपि मूल्यं दत्वा नौकां क्रीणाति, स च क्रीत्वा अभिमुखम् आहृत्य श्रमणाय ददाति तत् क्रीतमाहृत्य दीयमानमिति कथ्यते, क्रयक्रीतामभिमुमानीय दीयमानां नौकां श्रमणः श्रमणी वा 'दख्हइ' दूरोहति-तदधिरोहणं करोति, तथा 'दुरूहंतं वा साइज्जइ' दूरोहन्तं वा-नौकाया अपरि अधिरोहणं कुर्वन्तं श्रमणान्तरं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० २॥
सूत्रम्-एवं जा चउद्दसमे उद्देसे पडिग्गहगमो सो णेयव्वो जाव अच्छेज्जं अणिसिढे अभिहडमाहटु दिज्जमाणं दूरुहइ दूरुहंतं वा साइज्जइ ॥ सू०३-५॥
For Private and Personal Use Only