________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशील
चूर्णी-ते सेवाणे' इत्यादि । 'ते सेवमाणे तत्-सांगारिकशय्यात आरभ्य उद्देशकपरिसमाप्तिपर्यन्तं प्रायश्चित्तस्थान सेवमानः तस्य प्रतिसेवनां कुर्वन्-श्रमणः श्रमणी वा 'आवज्जई' आपद्यते-प्राप्नोति 'चाउम्मासियं' चातुर्मासिकम् ‘परिहारहाणं' परिहारस्थानम्प्रायश्चित्तम् 'उग्धाइयं' उद्घातिकम्-सागांरिकशय्यादिप्रवेशादारभ्य उद्देशकपरिसमाप्तिगतोच्चारप्रस्रवणपरिष्ठापनसूत्रपर्यन्तं यानि यानि प्रायश्चित्तस्थानानि दर्शितानि तेषु मध्यात् एकमनेक सर्व वा पापस्थानं प्रतिसेवमानस्य लघु चातुर्मासिवे प्रायश्चित्तं भवति, तथा तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० ५३॥ इति श्री–विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक - प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीशाहछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रति-विरचितायों "निसीयसूत्रस्य" चूर्णिभाष्यावरिरूपायां व्याख्यायाम् षोडशोदेशकः समाप्तः ॥१६॥
For Private and Personal Use Only