________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णिभाष्यावचूरिः उ० १६ सू० ४२-५३ सचित्तपृथिव्यादिषच्चारादिपरिष्ठापननिषेधः३७९
छाया-यो भिक्षुरनन्तरहितायां पृथिव्या जीवप्रतिष्ठिते साण्डे सप्राणे सबीजे सहरिते सओसे सोदके सोत्तिापनकदकमृत्तिकामर्कटसंतानके दुर्बद्ध दुनिक्षिप्ते अनि कम्पे चलायले उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ४२ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जेभिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'अणंतरहियाए पुढवीए' अनन्तरहितायां पृथिव्याम् , तत्र-अन्तरहिता-अन्तरं-व्यवधानं तेन हिता स्थिता अन्तरहिता-ज्यवधानयुक्ता न अन्तरहिता अनन्तरहिता अचित्तताव्यवधानवर्जिता, चतुरङ्गुलपर्यन्तसचित्ततासम्बन्धयुक्ता सचित्तेत्यर्थः तस्यामनन्तरहितायां सचित्तायां पृथिव्याम् 'जीवपइटिए' इत्यादिविशेषणानि स्थानसामान्यस्य बोध्यानि ततश्च जीवप्रतिष्ठिते-दीन्द्रियादिजीवविशिष्टे-दारुकादौ 'सअंडे' साण्डे, तत्र अण्डेन सहितं साण्डं स्थानं तस्मिन्-अण्डविशिटस्थाने 'सहरिए' सहरिते-हरितविशिष्टे स्थाने 'सओसे' सओसे, तत्र ओस इति निशाजलं तेन सहिते स्थाने 'सउदए' सोदके-सचित्तोदकसहिते स्थाने 'सउत्र्तिगपणगदगमट्टियमक्कडासंताणगंसि' सोत्तिङ्ग-पनक-दकमृतिका-मर्कटसन्तानके, तत्र उत्तिङ्गो जीवविशेषो गर्दभाकृतिभूमौवर्तुलछिद्रकारकः, तद्विशिष्टे भूभागे, पनकः- 'लीलनफुलन-काई' इति लोकप्रसिद्धस्तत्सहिते भागे, दकमृत्तिका-उदकमिश्रितमृत्तिका, तद्विशिष्टे भूभागे-सामृत्तिकायुक्त स्थाने, तथा-मर्कटसन्तानके लूता(मकडी)जालप्रतिष्ठितस्थाने, पुनः कथंभूते 'दुब्बद्धे'दुर्बद्धे-सम्यग्बन्धनरहिते 'दुण्णिक्खित्ते' दुनिक्षिप्ते-असम्यग्रूपेण स्थापिते दारुकादौ 'अनिक्कं' अनिष्कंपे-कम्पनसहिते 'चलाचले' चलाचले–अस्थिरे स्थाने यः श्रमणः श्रमणी वा 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिहवेइ' परिष्ठापयति-व्युत्सृजति तथा 'परिहवेतं वा साइउजइ' परिष्ठापयन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । ॥ सू०४२ ।। 'जे भिक्खू ससणिद्धाए पुढवीए' इति सूत्रादारभ्य -'जे भिक्खू खंधसि वा' इति सूत्रपर्यन्तानि दश सूत्राणि, तच्छाया, तव्याख्या तद्भाष्यं चेति सर्व त्रयोदशोदेशके विलोकनीयम् । विशेषस्तु एतावानेव यत्-तत्र 'ठाणं वा संज्जं वा' इत्युक्तम् , अत्र तु 'उच्चारपासवणं परिहवेइ इति वाच्यम् ॥ सू० ४२-१०-५२॥
सूत्रम्--तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ।। सू० ५३॥
॥ निसीहज्झयणे सोलसमो उद्देसो समाप्तः ॥१६॥ छाया-तत्सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमुद्घातिकम् ॥ सू०५३ ॥
॥ निशीथाध्ययने षोडशोद्देशकः समाप्तः॥ १६ ॥
For Private and Personal Use Only