SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावरिः उ० १६ सू० २४-२९ जुगुप्सिकुलाशनादिग्रहणनिषेधः ३७१ सूत्रम्-जे भिक्खू विरूवरूवाई दस्सुयाययणाई अणारियाई मिल. क्खुइं पच्चंतियाई संति लाढे विहाराए संथरमाणेसु जणवएसु विहाखडि. याए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ।। सू० २४॥ छाया--यो भिक्षुः विरूपरूपाणि दस्युकायतनानि अनार्याणि म्लेच्छानि प्रात्यन्तिकानि सति लाडे विहाराय संस्त्रियमाणेषु जनपदेषु विहारप्रतिक्षया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ सू० २४॥ चूर्णी--'जे भिक्खू' इत्यादि । यः किश्चिद्भिक्षुः श्रमणः श्रमणी वा 'विस्वरूवाई' विरूपरूपाणि शकयवनाद्यन्यान्यवेषभूषादिनाऽनेकप्रकारकाणि 'दस्सुयाययणाइ' दस्युकायतनानि दस्युकाः-चौरास्तेषामायतनानि-स्थानानि कीदृशानीत्याह-'अणारियाई' . अनाणिअनार्यैः-आर्यभिन्नैः परिसेव्यमामानि 'मिलक्खुई' म्लेच्छानि-म्लेच्छैः परिसेव्यमानानि, तत्र म्लेच्छास्ते ये अव्यक्तभाषिणः यदा रुष्टास्तदा दुःखमुत्पादयन्ति धर्मे दुष्प्रबोधाः सर्वादरेण भोजनशीलाः अकालपरिभोगिनो रात्रावेव जागरणशीलाः धर्ममधर्म मन्यमाना इत्थंभूता म्लेच्छास्तेषां स्थानानि, पुनः 'पच्चंतियाई' प्रात्यन्तिकानि प्रत्यन्तानि अनार्याणि तैः सेवितानि 'संति साढे' सति लाढे सत्यन्यस्मिन् देशे 'विहाराए' विहाराय 'संस्थरमाणेसु' संस्त्रियमाणेषु 'जणवएसु' ननपदेषु व्याख्या पूर्ववत् 'विहारवडियाए' विहारप्रतिज्ञया यो भिक्षुर्दस्युकानार्यम्लेच्छदेशेषु गमनाबर विहारभावनया 'अभिसंधारेई' अभिसंधारयति-विचारं करोति कारयति वा तथा 'अभिसंधारेत वा साइज्जई' अभिसंधारयन्तं-तत्र गमनाय विचारं कुर्वन्तं कारयन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभाग भवति ॥ सू० २४ ॥ सूत्रम्-जे भिक्खू दुगुंछियकुलेसु असणं वा पाणं वा खाइमं वा साइयं वा पडिग्गाहेइ पडिग्गाहँत वा साइज्जइ ॥ सू० २५॥ छाया-यो भिक्षुः जुगुप्सितकुलेषु अशनं घा पानं वा बाधं वा स्वायं वा प्रतिग्रहाति प्रतिगृहन्तं वा स्वदते ॥सू० २५ । । चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'दुगुंछियकुलेसु' जुगुसितकुलेषु-निन्दितकुलेषु, तच्च-चर्मकार मद्यविक्रयि-मद्यपायि-भिल्ल-धीवरादिकुलम् , यदा यद् हि यत्र देशे निन्दितत्वेन प्रपिद्धम् तेषु तथाविधेषु कुलेषु असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्य वा 'साइमं वा' स्वायं वा 'पडिग्गाहेइ' प्रतिगृह्णाति-स्वीकरोति 'पडिग्गाहेतं वा साइज्जई' प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy