________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथस्त्रे .चूर्णी- 'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'चुम्गहनुक्कंताणं' व्युद्ग्रहव्युत्क्रान्तानाम् व्युद्ग्रहव्युत्क्रन्तेभ्य इत्यर्थः सज्झायं' स्वाध्यायम्सूत्रार्थतदुभयरूपम् 'पडिच्छई' प्रतीच्छति 'पडिच्छंतं वा साइज्जइ' प्रतीच्छन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥
अत्राह भाष्यकारः'बुग्गहवुक्कंताणं, असणा आरब्भ जो य समायं ।
देइ पडिच्छइ भिक्खू, आणाभंगाइ पावेइ ॥ छाया-व्युद्ग्रह व्युत्क्रान्तानां (व्युग्रहव्युत्क्रान्तेभ्यः) अशनादारभ्य यध स्वाध्यायम् ।
ददाति प्रतीच्छति भिक्षुः, आशाभादि प्राप्नोति ॥ अवचूरिः--यश्च भिक्षुः व्युद्ग्रहव्युत्क्रान्तानां अशनादारभ्य स्वाध्यायम्-अशनादिक वस्त्रादिकं वसतिं ददाति प्रतीच्छति तत्र प्रविशति वा, तथा स्वाध्यायं च ददाति, तेषां सकाशात् स्वाध्यायं स्वीकरोति वा स माज्ञाभङ्गादिकं प्राप्नोतीति ॥ सू० २२ ॥
सूत्रम्--जे भिक्खू विहं अणेगाहगमणिज्जं संति लाढे विहाराए संथरमाणेसु जणवएसु विहारखडियाए अभिसंधारेइ अभिसंधारेतं वा साइ. ज्जइ ।। सू० २३॥
छाया- यो भिक्षुर्वीथिमनेकाहगमनीयां सति लाढे विहाराय संस्त्रियमाणेषु ममपदेषु विहारप्रतिक्षया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ सू० २३ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'विहं' वीथिम् कथंभूतां वीथिम् ? तत्राह-'अणेगाह' इत्यादि, 'अणेगाहगमणिज्ज' अनेकाहगमनीयाम् अनकैरहोभिः-दिवसः गमनीयाम्-गन्तुयोग्यामटवीरूपां विहारप्रतिज्ञया गन्तुमभिसेधारयति इत्यग्रेण सम्बन्धः । कथमित्याह-'संति लाढे' सति लाढे विद्यमानेऽन्यस्मिन् देशे यत्र 'विहाराए' विहाराय विहारनिमित्तम् तपोनियमसंयमस्वाध्यायाद्यर्थम् 'संथरमाणेसु' संस्त्रियमाणेषु-आहारोपधिवसत्यादिना सुलभेषु निर्वाहयोग्येषु 'जणवएसु' जनपदेषु सत्सु 'विहारवडियाए' विहारप्रतिज्ञयाविचरणभावनया 'अभिसंधारेइ' अभिसंधारयति-गन्तुं मनसि विचारयति, 'अभिसंधारेत' अनेकदिवसगमनीयामटवीं विहारविचारणां कुर्वन्तम् श्रमणान्तरम् 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभाग भवतीति । अयं भावः-कथमने कदिवसगमनीयमार्गे गमननिषेधः कृतस्तत्राहयत्र देशे गम्यमाने संयमात्मविराधनादयोऽनेके दोषाः प्रसज्येयुः, तपोनियमस्वाध्यायाधभावरूपा संयमविराघना, श्वापदादिहिंसकप्राणिभिरात्मविराधना च सम्भवतीत्यतोऽनेकदिवसगमनीयमार्गे गमनाय मुनिः मनस्यपि विचारं न कुर्यादिति ।। सू० २३॥
For Private and Personal Use Only