SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० १६ सू ४-१३ सचित्तेश्यारण्यगभिक्षावसुराजिकविपर्ययनि० ३६५ अत्राह भाष्यकारः सोदगागणियं सेज्जं, खणिगं सबकालियं । पविसे तत्य जो भिक्खू, आणाभंगाइ पावइ ॥१॥ छाया-सोदकाग्निकां शय्यां, क्षणिकां सर्वकालिकाम् । प्रविशेत् तत्र यो भिक्षुः, आहाभङ्गादि प्राप्नोति ॥१॥ अवचरिः-'सोदगागणियं' सोदकाग्निकाम्-सोदकां साग्निकां वा उदकसहितामग्निसहितां वा 'सेज्ज' शय्याम् , सा द्विविधा-क्षणिका-अल्पकालभाविनी. सर्वकालिका-सर्वकालभाविनी जलाशयरूपा इष्टिकापाकादिरूपा च, तां द्विविधामपि शय्याम्-वसतिं प्रविशेत् यो भिक्षुः तिष्ठेत् स आज्ञाभङ्गादिदोषान् प्राप्नोतीति । सू० ३ ॥ सूत्रम्-जे भिक्खू सचित्तं उच्छु भुंजइ भुजंतं वा साइज्जइ ॥ सू०४॥ छाया-यो भिक्षुः सचित्तमिर्धा भुक्ते भुलानं वा स्वदते ॥ सू० ४ ॥ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्ख' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सचित्तं उच्छु' सचित्तमिक्षुम् ‘भुंजई' भुङ्क्ते तथा 'भुजंतं वा साइज्जई' भुञ्जानं वा स्वदते-सचित्तेक्षुदण्डस्योपभोगं कुर्वाणं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू०४॥ । सूत्रम्-एवं पण्णरसमे उद्देसे अंबस्स जहा गमो सो चेव इहंपि णेयव्वो ॥ सू० ५-९॥ छाया-पवं पञ्चदशे उद्देशे आप्रस्य यथा गमः स एव इहापिसातव्यः ।।सू०५-२॥ चूर्णी-एवं-अनेनैव प्रकारेण यथा पञ्चदशोदेशके सचित्ताम्रफलभक्षणे गमः कथितः स एव गमो निरवशेषोऽत्रापि ज्ञातव्यः केवलाम्रफलस्थाने सचित्तमिक्षुमितिपदं निवेशनीयमिति । नवरम् 'अंतरुच्छुयं' इति अन्तरिक्षुकम्-इक्षोरन्तर्भागव्यवस्थितमवयवविशेषम् । शेषं सूत्रपञ्चकं पञ्चदशो. देशकगताम्रसूत्रवद् व्याख्येयम् ॥ सू० ५-९॥ सूत्रम्--जे भिक्खू आरण्णगाणं वणवयाणं अडविजत्तासंपट्टियाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंत वा साइज्जइ ॥ सू०१०॥ छाया--यो भिक्षुरारण्यगानां वनवजानाम् अठवीयात्रासंप्रस्थितानाम् अशनं वा पानं वा खाद्य वा स्वाद्य वा प्रतिगृहाति, प्रतिग्रान्तं वा स्वदते ॥ सू० १०॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कम्दि भिक्षुः 'आरणगाणं' आरण्यगाणाम् , अरण्यम्-एकजातीयवृक्षसमूहात्मकं तदेव आरण्यम् तत्र गच्छन्तीति आरण्यगाः, तेषामारण्यगा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy