SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६४ निशोथसूत्रे एवं नाटयेऽपि, तत्र नृत्यनाटकयोरय भेदः-यत् गीतरहितं तत् नृत्यं तत्र केवलं गात्रसञ्चालनमेव, नाटकं तु गीतसमन्वितम्, यत्र गौतमपि गायति गात्रसञ्चालनमपि करोति इति, तत्र नाटकेऽपि स्त्रीपुरुषयोविभागेन द्रव्यभावमेदो ज्ञातव्य इति । एवं गीतेऽपि, तत्र गीत-स्वरसाम्येन गानं, तच्चतुर्विधं भवति, तन्त्रीसमम् १, तालसमम् २, प्रहसमम् ३, लयसमं च ४, तत्र यत् गीतं पुरुषैर्गातुं योग्यं तत् श्रमणानां द्रव्यसागारिकं श्रमणीनां तदेव भावसागारिकम्, यत् पुनः स्त्रीभिर्गातुं योग्यं तत् श्रमणीनां द्रव्यसागारिकं श्रमणानां भावसागारिकम् । एवं शयनीयेऽपि, तत्र शयनीयं पयङ्काबनेकप्रकारकम् , तत्र यत् शयनीयं पुरुषेरधिष्ठातुं योग्यं तत् श्रमणानां द्रव्यसागारिकं तदेव शयनीयं श्रमणीनां भावसागाकिरम्, यत्पुनः त्रीभिरधिष्ठातुं योग्यं तत् शयनीय श्रमणीनां द्रव्यसागारिकं श्रमणानां तु भावसागारिकम् । इत्यादिभेदभिन्नां सागारिकशय्यां यः कश्चिद्भिक्षुरनुप्रविशति स दोषभागी भवतीति ॥ सू० १ ॥ मूत्रम्-जे भिक्खू सोदगं सेज्जं अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० २॥ __छाया--यो भिक्षुः सोदकां शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥ सू०२॥ चूर्णि:-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'सोदकं सेज्ज' सोदका शय्याम् सचित्तजलसहिता जलस्थानरूपां सागारिकवसतिं गृहस्थानां जलस्थानं प्रपादिकम् यत्रोदकं विद्यते तादृशस्थानं यस्य वा समीपे उदकं विधते तादृशं स्थानं सोदकशय्येति पदेन कथ्यते इति तादृशी सोदकां वसतिं यः श्रमणः श्रमणी वा 'अणुप्पविसई' अनुप्रविशति तत्र प्रवेशं करोति, कारयति वा 'अणुप्पविसंतं वा साइज्जई' अनुप्रविशन्तं वा सोदकशय्यायां वासं कुर्वन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २ ॥ सूत्रम्-जे भिक्खू सागणियं सेज्जं अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० ३॥ छाया-यो भिक्षुः साग्निकां शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥सू० ३॥ चूर्णी-'जे भक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणो वा 'सागणियं सेज्ज' साग्निकां शय्याम् , तत्र अग्रिना सहिता-संयुक्ता भग्निसमीपस्था वा शय्या वसतिः-स्थानं सा साग्निकशव्या तां साग्निकशय्यां पाकस्थानं महानसादिकम् , कुम्भकारस्य भाण्ड. पचनस्थानं वा यत्राग्निर्भवेत् तत्र, अथवा अग्निसमीपवर्तिस्थानं वा 'अणुप्पविसई' अनुप्रविशति अग्निशालादिषु प्रवेशं करोति कारयति वा तथा 'अणुप्पविसंतं वा साइज्जई' अनुप्रविशन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy