________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
निशीथसूत्रे नाम्-अरपयगामिनाम् वणवयाणं' वनवजानाम्, तत्र वनं प्रति, व्रजन्ति-वने गच्छन्ति ये ते वनव्रजाः, तेषां वनगामिनाम् आजीविकार्थम् अरण्ये वने वा गच्छतामित्यर्थः, 'अडविजत्तासंपटियाण' अटवीयात्रासंप्रस्थितानाम्-क्नयात्रा) निर्मतानाम् , तत्र वनवृक्षाकुलं निर्जनं भयङ्करं वनमटवी कथ्यते, तत्सम्बन्धिनी यात्रा-रामनरूपा तदर्थ संप्रस्थितानां काष्ठादिहरणार्थ निर्गतानां तथा वनोपजीविनां काष्ठहारेकाणां संबन्धि यो भिक्षुः 'असणं वा' अशनं वा-पाणं वा' पानं वा 'खाइमं वा' खाचं वा 'साइमं वा' स्वायं वा 'पडिग्गाहेई' प्रतिगृह्णाति-स्वीकरोति स्वीकारयति वा तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा श्रमणान्तरम् स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति यतो यो वनं गच्छति स तु परिमितमेवाशनादिकं स्वस्याभोक्तुं गृह्णातिद् यदि साधुम्रहीष्यति तदा स पुरुषः स्वकीयोदरपूरणे कठमनुभविष्यति तस्मादरण्यादौ गच्छतां वनोपजीविना सम्बन्धि यदशनादिकं तत् न गृह्णीयात् न वा ग्राहयेत् न वा गृहन्तमनुमोदयेदिति ।। सू० १० ॥
सूत्रम्--जे भिक्खु वसुराइयं अवसुराइयं वयइ वयंतं वा साइ. ज्जइ ॥ सू० ११॥ छाया-यो भिक्षुर्वसुराजिकमवसुराजिकं वदति वदन्तं वा स्वदते ॥ सू० ११ ॥
चर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वसुराइयं वसुराजिकम्-विशुद्धज्ञानदर्शनचारित्राराधकं दमितेन्द्रियं जैनदीपकस्वरूपम् , तत्र वसूनि रत्नानि पञ्चमहाव्रतरूपाणि ज्ञानदर्शनचारित्रतपांति वा भावरत्नानि तैः राजते-शोभते यः स वसुराजिकः तथा चैतादृशं वसुराजिक मुनि 'यक्मुराइयं' अवसुराजिकम्-ज्ञानदर्शनचारित्रतपोभावरत्नरहितं- वयई' वदति-कथयति अर्थात् ज्ञानदर्शनचारित्राराधकं मुनिवर्यम् 'नायं वसुराजिकः अपितु धूत्तौ वञ्चको विराधितसयममार्गः' इत्यादिक्रमेण निन्दा करोति, तथा 'वयंत वा साइज्जई' वदन्तं वा तादृशश्रमणान्तरं यः कश्चित् स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भक्तीसि ॥ सू० ११ ॥
सूत्रम्--जे भिक्खू अवसुराइयं वसुराइयं वयइ वयंतं वा साइज्जइ ॥ सू० १२॥
छाया-यो भिक्षुरवसुराजिक वसुराजिकं वदति बदन्तं पा स्वदते ॥ सू० १२ ॥
चूणों-'जे भिक्खू' इत्यादि । 'जे मिक्खू' यः कश्चिब्रिक्षुः श्रमणः श्रमणी बा 'अवसुराइय' अवसुराजिकम् यः खलु ज्ञानदर्शनचारित्राणामनागधकः श्रमणभिन्नः श्रमणसदशश्च केवलं वेषमात्रैण साधुसमानः ज्ञानदर्शनचारित्रात्मकरत्नरहितत्वात्, तमवसुराजिकं पार्श्वस्थादिकम् 'वसुराइयं'
For Private and Personal Use Only