________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे चनमित्यर्थः एवंभूतं वचनं भाषते, तथा 'वयंत वा साइज्जइ' बदन्तं वा श्रमणमाक्रोशवचनं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति । एतत्सूत्रस्य विशेषतो व्याख्यानमत्रैव दशमोद्देशके द्रष्टव्यम्, एताकान् विशेषः-यत् दशमोद्देशके आचार्य पर्यायज्येष्ठं वा प्रति आक्रोशवचनस्य प्रतिषेधः कृतः, अत्र तु भिक्षुकमात्रं प्रति आक्रोशवचनस्य निषेधः क्रियते ॥ सू० १॥ - सूत्रम्--जे भिक्खू भिक्खूणं फरसं वयइ वयंत वा साइज्जइ॥सू० २॥
छाया--यो भिक्षुभिषणां परुषं वदति वदन्तं वा स्वदते ॥ सू० २ ।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भिक्खूण' भिक्षुणाम् 'फरुसं क्यइ' परुषं वदति, तत्र परुषं-कठोरं वाक्यं भाषते तथा 'वयंतं वा साइज्जई' वदन्तम् कठोरखाक्यं भाषमाणं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० २ ॥
सूत्रम्-जे भिक्खू भिक्खूणं आगाढफरुसं वयइ वयंतं वा साइ. ज्जइ ॥ सू० ३॥
छाया-यो भिक्षुर्भिक्षणाम् आगाढपरुष वदति पदन्तं वा स्वदते ॥सू० ३॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भिक्खूणं' भिक्षूणाम् 'आगाढफरुसं वयई' आगाढपरुषं वदति, तत्र आगाढम्-आक्रोशवचनं-मर्मोद्घाटनपूर्वकमुच्चैः सक्रोधं परुषं वाक्यं वदति-आक्षेपं करोति, तथा 'वयंत वा साइज्जई' वदन्तं वा स्वदते स प्रायश्चित्तभागी भवति । दशमोद्देशस्यादौ एव अस्य व्याख्यानं कृतं तत एव दष्टव्यमिति ॥ सू० ३॥
सूत्रम्-जे भिक्खू भिक्खूणं अण्णयरीए अच्चासायणाए अच्चासाएइ, अच्चासाएंतं वा साइज्जइ ॥ सू०४॥
छाया-यो भिक्षुर्भिक्षूणाम् अन्यतरया अत्याशातनया अधाशातयति अत्याशातयन्तं वा स्वदते ॥ सू०४॥ ___चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भिक्खू ' भिषणाम् 'अण्णयरीए' अन्यतरया-अनेकप्रकारकाशातनामध्याद् एकया कयाचित् 'अच्चासायणाए' अत्याशातनया 'अच्चासाएई' अत्याशातयति-माज्ञातनां करोति, तथा 'अच्चासाएंतं वा साइज्जई' अत्याशातयन्तम्-आशातनां कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:भाष्यम्-आगाढं फरुसं वक्कं, दसमे खलु वन्नियः । .
तं वेत्थवि णायन्वं, नवरं भिक्खुयं पइ ॥
For Private and Personal Use Only