________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ पञ्चदशोद्देशकः ॥
गतश्चतुर्दशोदेशकः सम्प्रति अवसर प्राप्तः पश्चदशोदेशकः प्रारभ्यते । तत्र पूर्वोक्तचतुईशोदेशकेन सहास्य पञ्चदशोद्देशकस्य सम्बन्धः प्रदर्श्यते-चतुर्दशोद्देशकस्यान्तिमसूत्रे प्रोक्तम् साधुःप्रतिग्रहनिश्रया वर्षावासं न वसेत् इति, एवं प्रतिग्रहनिश्रया वसन्तं साधुं यदि कोऽन्यः साधु रेवं करणे प्रतिषेधयेत् तदा तं प्रति स क्रोधावेशेन परुषं वदिष्यतीत्यत्र पञ्चदशोदेशके परुषभापाया निषेधः करिष्यते इति सम्बन्धेनाह भाष्यकार:--' ण मे रिट्ठगो' इत्यादि ।
भाष्यम् - ण मे णिरद्वगो वासो, वल्ली रूढफलाहुणा । एवं वयं समणं, अज्जो ! मेवं वयाहि भो || १ ॥
छाया--न मे निरर्थको वासो वल्ली रूढफलाऽधुना । एवं वदन्तं श्रमणं आर्य ! मैवं वद भोः || १ ||
Acharya Shri Kailassagarsuri Gyanmandir
अवचूरिः - कश्चित् श्रमणश्चतुर्मासकरणार्थं कुत्रचित् क्षेत्रे वर्षावासनिवासं कृतवान्, तत्र पात्रार्थं वसन् एकां तुम्बिकालतां पश्यन् एवं वदति - अहो अत्र क्षेत्रे मम वासो न निरर्थको जातः, किन्तु सफल एव, यस्मात्कारणात् एषा पुरतो दृश्यमाना तुम्बिकावल्ली समुत्पन्ना न केवलं समुत्पन्नैव किन्तु क्रमशो वृद्धिंगता सती भित्यादौ आश्रये प्रसरति, पत्रादिकमपि अस्यां बल्ल्यां पर्याप्तं जातम्, न केवलं पत्राणामेवाऽऽधिक्यम् किन्तु पुष्पप्राचुर्यमपि जातम्, न केवलं पुष्पाणामेव प्राचुर्यम् अपि तु फलान्यपि अनेकानि जातानि न केवलं फलान्येव संजातानि, किन्तु कतिपयफलानि पकानि संजातानि, अतः परं तुम्बिकायाः फलानि मे पात्राणि भविष्यन्ति यदर्थं ममात्र वासो जातस्तत्कार्य मे विनैव परिश्रमं भविष्यति, अनुकूलं मदीयभाग्यम्, एवंप्रकारेण हर्षातिरेकाद् वदन्तं श्रमणं दृष्ट्वा कोऽपि तत्समीपवर्ती श्रमणः तं श्रमणं प्रति वदति - हे आर्य ! श्रमण ! मैवं त्वं वद, एवं वदतस्ते महान् कर्मबन्धो भविष्यति, ततः स श्रमणः प्रतिषेधेनारुष्टोऽसौ तं प्रति कठोरवचनं वदेत् तादृशकठोरवचनस्य प्रतिषेधाय पश्चदशोदेशकसूत्रमिदमारभ्यते, भयमेव सम्बन्धः पूर्वापरसूत्रयोर्भवति, तदनेन सम्बन्धेन आयातस्यास्य पञ्चदशोदेशीयप्रथमसूत्रस्य व्याख्यानं प्रस्तूयते - 'जे भिक्खू' इत्यादि ।
'
सूत्रम् — जे भिक्खू भिक्खूणं आगाढं वयइ वयंतं वा साइज्जइ ॥ सू० १|| छाया - यो भिक्षुर्भिक्षूणाम् आगाढं वदति वदन्तं वा स्वदते || सु० १ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । जे भिक्खू' यः कश्चिद् भिक्षुः 'भिक्खूणं' भिक्षूणां -प्रेरक'भिक्षूणां 'आगाढं वयइ' आगाढं वदति -तत्र अत्यर्थं गाढम् आगाढम् - उच्चैर्वचनम् उच्चैराक्रोशव
For Private and Personal Use Only