________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथर
अत्राह भाष्यकार:भाष्यम्-उडुबद्ध मासं वा, चाउम्मास तहेव य ।
पडिग्गहत्य जे भिक्खू, वसइ दोसभा भवे ॥ छाया-- ऋतुबद्ध मार्स वा चातुर्मासं तथैव च।
प्रतिग्रहार्थ यो भिक्षुर्वसति दोषभाग् भवेत् ॥ अवचूरिः- यो भिक्षुः प्रतिग्रहाशया ऋतुबद्धे काले हेमन्तप्रीष्मादिसमये मासं मासकल्पं वसति निवासं करोति तथैव तेनैव प्रकारेण चतुर्मासं वसति निवासं करोति प्रतिग्रहाशया तदा तादृश निवासं कुर्वन् भिक्षुः दोषभाग् आज्ञाभङ्गादिदोषभाग् भवति ।। सू० ५९॥ सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥
॥णिसीहज्मयणे चउपसमो उद्देसो समत्तो ॥१४॥ छाया-तत्सेबमान आपद्यते चातुर्मासिकं परिहारस्थानमुद्घातिकम् ।। सू०४९॥
॥ निशीथाध्ययने चतुर्दश उद्देशकः समाप्तः ॥ १४ ॥ चूर्णी-'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् 'पडिग्गई किणइ' इत्यारभ्य 'पडिग्गाहनीसाए वासावासं' इति पर्यन्तं स्थानं प्रतिसेवमानः प्रतिसेवनां कुर्वाणः श्रमणः श्रमणी वा 'आवज्जइ' आपद्यते प्राप्नोति 'चाउम्मासियं' चातुर्मासिकम् 'परिहारहाणं' परिहारस्थानम् 'उग्धाइयं' उद्घातिकं लघुकम लघुचातुर्मासिकं प्राप्नोति ॥ सू० ६०॥ इति श्री–विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"- पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् चतुर्दशोदेशकः समाप्तः ॥१४॥
For Private and Personal Use Only