________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३६
निशीथसूत्रे
छाया - यो भिक्षुरतिरेकप्रतिग्रहं गणिमुद्दिश्य गणि समुद्दिश्य तं गणिमनापृse अनामन्त्र्य अन्योन्यस्मै वितरति वितरंतं वा स्वदते ॥ सू० ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णी 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'अरे गपडिग्ग' अतिरेकप्रतिग्रहम् - प्रमाणादधिकं पात्रं यावत्प्रमाणकं पात्रादिकं श्रमणार्थं शास्त्रे कथितं ततोऽधिकम्, अयं भावः-उत्कृष्टेन एकस्य साधोः कृते पात्रत्रयं चतुर्थमुन्दकं तीर्थकरेणानुज्ञातं, ततोऽधिकं पात्रम् अतिरेकमिति कथ्यते । अथवा - यावत्संख्यक पात्रग्रहणं कथितं तदपेक्षया यदि बहुतरं गृह्णाति ततोऽतिरेकमिति कथ्यते । अथवा अनेन प्रकारेणातिरेको भवेत्- - यथा कोपि साधुः पात्रयाचनार्थं प्रस्थितः तत आचार्यः पृच्छति क गच्छसि तदा स वदति पात्र मानेतुम् पात्रेषु छिद्राणि जातानि । तदा आचार्यः कथयति - सर्वसाध्वर्थ पात्राणि आनयतु । तदा स निर्गतः पात्रमानेतुम् मार्गे गच्छन् संभोगिसाधुना स दृष्टः, संभोगी साधुर्वदति - क गच्छसि ? स प्रोवाच आचार्येण सर्वेषां पात्रग्रहणाय प्रस्थापितोऽस्मि । तदा सांभोगिकः साधुर्वदति - भो श्रमण ! यावन्ति पात्राणि गुरुणा ते ग्रहीतुं संदिष्टानि तावत्सु पात्रेषु गृहीतेषु यदि तदतिरिक्तं पात्रं लब्धं भवेत् तदा ग्रहीतव्यं गृहीत्वा च मह्यं समर्पणीयम्, अहमाचार्य विज्ञापयिष्यामि । ततः पात्रान्वेषकः साधुर्वदति - एवं करिष्यामीति । ततः स गतः पात्र मानेतुम् ततो लब्धं तावत्प्रमाणकं पात्रं यावन्मात्रं गुरुणा संदिष्टं ततोsधिकमपि पात्रं लब्धं गृहीतं च । एवं प्रकारेणातिरेकपरिग्रहो भवति । अथवा यदीदं पात्रं त्रुटितं स्फुटितं स्फटितं वा स्यात् तदा ग्रहीतव्यं भवेत् संप्रति प्रायोग्यं च लभ्यते इति कृत्वा आत्मछन्दसा अनिर्दिष्टान्यपि पात्राणि गृहीतानि इत्यतिरेकपरिग्रहो भवतीति । "गणि उद्देसिय गणि समुद्देसिय" यं गणिमुद्दिश्य यं गणि समुद्दिश्य अतिरेकपात्रं गृहीतम् तत्र विशेषित उद्देशो यथागृहीतमतिरेक पात्रादिकं साधर्मिकाय दास्यामीति तथा विशेषितः समुद्देशः यथा सति साधर्मिके साधर्मिकाय दाम्यानि, अथवा उद्देशः -गणिनो दास्यामि वाचकाय वा दास्यामि, समुद्देशो यथा अमुकगणिने दास्यामि अमुखवाचकाय वा दस्यामीति । तत्र सामान्यतोऽवधारणमुद्देशो विशेषतो निर्धारणं समुद्देश इति निष्कर्षः । "तं गणि अणापुच्छिय अणामंतिय" तं गणिनं यदर्थमतिरेकषात्रस्य ग्रहणं कृतवान् तम् अनापृष्ठ्य पृच्छाम कृत्वैव अनामत्र्य आमंत्रणमकृत्वैव, यमुद्दिश्य अतिरेक पात्रादिकं गृहीतवान् तं दृष्ट्वा गिमन्त्रणं यथा - इदं त्वदीयं पात्रादिकं स्वेच्छया गृहाण, अथ यदर्थमानीतवान् स प्रत्यक्षतो न मिलति तदा अन्यं पृच्छति कुत्र गतवान् स साघुरमुको वाचको गणी वा इति प्रच्छनम्, दृष्टे आमन्त्रणमदृष्टे पृच्छेति विवेकः । " अणमण्णस्स वियरइ" अन्योन्यस्मै वितरति यं समुद्दिश्याऽऽनीतवान् तमनापृच्छय अनामन्त्र्यान्यस्मै खेच्छया वितरति ददाति तथा 'वियरंतं वा साइज्जइ' वितरन्तं ददतं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सु० ५ ॥
For Private and Personal Use Only
9