________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चूर्णिभाष्याव बूरिः उ०४१ सु०६-८ अतिरेकप्रतिग्रहस्य समर्थांसमर्थाय दानादाननि० ३३७
सूत्रम् — जे भिक्खू अइरेगं पडिग्गहं खुड्डगस्स वा खुड्डियाए वा थेरस्स वा थेरियाए वा अहत्थच्छिन्नस्स अपायछिष्णस्स अनासाछिण्णस्स अकण्णछिष्णस्स अणोट्ठछिण्णस्स सक्क्स्स देइ देतं वा साइज्जइ ॥ सू०६ ॥
छाया - यो भिक्षुरतिरेकप्रतिग्रहं क्षुल्लकाय वा क्षुल्लिकायै वा स्थविराय वा स्थविरायै वा अस्त छिन्नाय अपादछिन्नाय अनासाछिन्नाय अकर्णछिन्नाय अनोष्ठछिन्नाय शक्ताय ददाति ददतं वा स्वदते ॥ सू० ६ ॥
1
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अइरेगं पडिग्गहं' अतिरेकं प्रतिग्रहं प्रमाणादधिकं प्रतिग्रहं पात्रं यस्य पात्रस्य यावत् प्रमाणं शास्त्रे कथितं तदपेक्षया अधिकं पात्रमतिरेकमिति कथ्यते तादृशपात्रम् 'खुड्डगस्स' क्षुल्लकायानतिक्रान्तवालवयस्काय बालकायेत्यर्थः, 'खुड्डियाए वा' क्षुल्लिकायै वा बालिकायै 'थेरगस्स वा' स्थविराय - वृद्धाय वा 'थेरियाए वा' स्थविरायै वा वृद्धायै इत्यर्थः, कथंभूतेभ्य-क्षुल्लकादिभ्यः ! तत्राह - 'अहत्थच्छिष्णस्स' अहस्तच्छिन्नाय न हस्तौ छिन्नौ भग्नौ यस्य स अहस्तछिन्नः हस्ताद्य - यवसंपन्नः, तस्मै अहस्तछिन्नाय तथा 'अपायच्छिण्णस्स' अपादछिन्नाय न पादौ चरणौ छिन्नौ विभग्नौ यस्य स अपादछिन्नः पादावयवसम्पन्नः; तस्मै अपादच्छिन्नाय तथा 'अणासाछिण्णस्स' अनासाछिन्नाय न छिन्ने कर्तिते नासिके यस्य स अनासाछिन्नः तस्मै अनासाछिन्नाय नासिकावयवसम्पन्नाय 'अकण्णछिष्णस्स' अकर्णछिन्नाय - अच्छिन्नकर्णाय कर्णसंपन्नायेत्यर्थः 'अणोट्ठछिष्णस्स' अनोष्ठछिन्नाय न छिन्नौ ओष्ठौ पूर्वापरौ यस्य स तथाविधः तस्मै अनोष्ठछिन्नाय ओष्ठावयवसम्पन्नाय, एतावता सर्वावयवसम्पन्नत्वं प्रदर्शितम् अत एव 'सक्कस्म' शक्ताय समर्थाय, तत्र शारीरिक मानसिकादिबलयुक्तः समर्थः तादृशाय शक्तिसम्पन्नाय 'देइ' ददाति सर्वाङ्गोपाङ्गयुक्तबलवीर्यादिसम्पन्नाय यो भिक्षुरतिरेकपात्रं समर्पयति तथा 'देतं वा साइज्जइ' ददतं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारः -
भाष्यम् - बालस्स य वुइडस्स य, साहुस्स साहुणिस्स वा । सक्करसाण गछिन्नस्स, देज्ज पत्ताइ दोसभा ||
Acharya Shri Kailassagarsuri Gyanmandir
छाया - बालाय च वृद्धाय व साधवे साध्ध्यै वा । hrestङ्गछिन्नाय दद्यात् पात्रादि दोषभाक् ॥
अवचूरि:
रे: - बालाय बाल्यावस्था सम्पन्नाय, वृद्धाय स्थविराय वा साघवे तथा एता
st साध्यै वा कीदृशाय ? शक्ताय शक्तिसम्पन्नाय गमनागमनसमर्थाय तथा अनङ्ग छिन्नाय
४३
For Private and Personal Use Only