________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशयसूत्रे
देहे' आत्मानं मुखादिकं पश्यति प्रेक्षते तथा 'देहेत वा साज्जइ' पश्यन्तं वा जलपरितमात्रके स्वात्मानं पश्यन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥सू० ३५॥ एवम् 'अदाए अप्पाणं देहेइ' आदर्श-दर्पणे आत्मानं पश्यति ॥ सू० ३६॥ 'असीए अप्पाणं देहेई' असौ खड्गे आत्मानं पश्यति ॥ सू० ३७॥ 'मणीए अप्पाणं देहेई' मणौ आत्मानं पश्यति ॥ सू० ३८॥ 'कुंडपाणीए अप्पाणं देहेइ' कुण्डपानीये हृदादिजले आत्मानं पश्यति ।। सू० ३९ । 'फाणिए अप्पाणं देहेइ' फाणिते इक्षुविकारभूते तरले गुडे आत्मानं पश्यति ।। सू०४०॥'तेल्ले अप्पाणं देहेइ' तैले आत्मानं पश्यति ॥ सू० ४१॥ 'महुए अप्पाणं देहेइ' मधुके–मधौ ‘सहद' इति प्रसिद्धे द्रवभूते तरले मधौ आत्मानं पश्यति ॥ सू० ४२।। 'सप्पिए अप्पाणं देहेई' सर्पिषि-घृते आत्मानं पश्यति ॥ सू० ४३॥ 'मज्जए अप्पाणं देहेइ' मधके-मद्ये सुरायामात्मानं पश्यति ॥ सू० ४४॥ 'वसाए अप्पाणं देहेइ' वसायां शारीरिकघातुविशेषे 'चर्बी' इति प्रसिद्धायां आत्मानं पश्यति पश्यन्तं वा अनुमोदते स दोषभागी भवति ॥ सू० ४५॥
अत्राह भाष्यकारःभाष्यम्-मत्तयाइवसांतेसु, एरिसन्नयरेसु वा ।
____ अप्पाणं देहए भिक्खू, आणाभंगाइ पावई ॥ छाया- मात्रकादिवसांतेषु ईदृशान्यतरेषु वा ।
आत्मानं पश्यति भिक्षुः, आशाभङ्गादि प्राप्नोति ॥ अवचूरिः-पञ्चत्रिंशत्तमसूत्रादारभ्य पञ्च चत्वारिंशत्तमपर्यन्तसूत्रेषु मात्रकादीनि वस्तूनि कथितानि तेषु सर्वेषु, तथा तादृशेषु अन्येष्वपि वस्तुषु यो भिक्षुरात्मानं शरीरमुखादिकं पश्यति 'जत्तियमेत्ता उ आहिया ठाणा' इति वचनात् यावन्मात्राणि आख्यातानि स्थानानि-मुखादि. दर्शनयोग्यानि वस्तूनि तेषु सर्वेषु य आत्मानं पश्यति स आज्ञाभङ्गादिदोषान् प्राप्नोति ॥
सूत्रम्-जे भिक्खू वमणं करेइ करेंतं वा साइज्जइ ॥सू० ४६॥ छाया-यो भिक्षर्वमनं करोति कुर्वन्तं वा स्वदते ॥ सू० ४६॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कचित् भिक्षुः श्रमणः श्रमणी वा 'वमणं करेई' वमनं करोति, तत्र वमनं सुखद्वारा मशिताशनादेहिनिष्कासनमित्यर्थः 'करतं वा साइज्जइ, वमनं कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ४६॥
सूत्रम्-जे भिक्खू विरेयणं करेइ करेंतं वा साइज्जइ ॥ सू० ४७॥ छाया-यो भिक्षु विरेचनं करोति कुर्वन्तं वा स्वदते ॥सू० ४७॥
For Private and Personal Use Only