________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बुर्णिभाष्यावरिः उ० १३ स० ४९-५१ आरोग्यार्थप्रतीकारपार्श्वस्थवन्दनप्रशंसननि० 23
चूर्णो–'जे भिक्खू' इत्यादि । 'जे 'भिक्खू' यः कश्चिद् भिक्षुः श्रममाः श्रमपी बा 'विरेयणं करेई' विरेचनं करोति, तत्र विरेचनं नाम अधः-स्रावणम्, संगृहीतमलस्य अपानद्वारा बहिनिस्सारणं तादृशं विरेचनं करोति तथा करेंत वा साइज्जई' विरेचनं कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ।। सू० ४७॥
सूत्रम्-जे भिक्खू वमणविरेयणं करेइ करेंतं वा साइज्जइ ॥सू० ४८॥
छाया- यो भिक्षुर्वमनविरेचनं करोति कुर्वन्तं वा स्वदते ॥ सू० ४८ ॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वमणविरेयणं करेइ' वमनविरचनं-समकालं वमनं विरेचनं च करोति तथा 'करें वा साइज्जइ' बमनं च विरेचनं च कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ४८॥
सूत्रम्-जे भिक्खू आरोग्गपडिकम्मं करेइ करेंतं वा साइज्जइ ॥ सू ४९॥
छाया - यो भिक्षरारोग्यप्रतिकर्म करोति कुर्वन्तं वा स्वदते ॥ सू० ४९ ॥
चूर्णी -'जे भिक्ख' इत्यादि । 'जे भिक्ख' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'आरोग्गपाडकम्म' आरोग्यप्रतिकर्म करोति, तत्रारोग्यं नैरुज्यं तस्मिन् सत्यपि प्रतिकर्म चिकित्सा करोति अनागतरोगस्य प्रतिकर्म करोति अर्थात् यो हि रोगरहितशरीरोपि अनागतकालेऽपि मम शरीर कोपि रोगः शरीरविनाशको मा भूयात्, इति कृत्वा बलादिवृद्ध्यर्थ भाविरोगशमनार्थ वा औषधगदीनां सेवनलक्षणं प्रतिकर्म करोतीति तथा 'करेंतं वा साइज्जई' आरोग्यप्रतिकर्म कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ।। सू० ४९॥
अवाह भाष्यकार:भाष्यम्-- अरोगत्ते सरीरस्स, बलबुद्दिनिमित्तगं ।
सेवए ओसहं जो उ, आणाभंगाइ पाबइ । छाया- अरोगत्वे शरीरस्य, बलवृद्धिनिमित्तकम् ।
सेवते औषधं यस्तु माझाभङ्गादि प्राप्नोति ॥ अवचूरिः-यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा नीरोगशरीरोपि बलादिवृद्धयर्थम् उपलक्षणात् आगामिकाले मम शरीरे रोगो मा भवतु, इति बुद्ध्या च औषधादिकं सेवते,
For Private and Personal Use Only