SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૨૮૬ निशीथसूत्रे 'पळालपीढगं वा' पलालपीठकं वा पलालमयं पीठकम् 'छगणपीढगं वा' छगणपीठकं गोमयपीठकं वा 'वेत्तपीढगं वा' वेत्रपीठकं वा, तत्र क्षेत्रं नाम लताविशेषः तेन संपादितं फलकादिकं वेत्रपीठकम्, एतादृशं पीठफलकादिम् 'परवत्येणोच्छन्नं' परवस्त्रेणावच्छन्नम्, तत्र परो गृहस्थः / श्रावकोsonant वा तस्य यद् वस्त्रम् तेन आच्छादितं पीठफलकादिकं यो भिक्षुः 'अहि' अधितिष्ठति तदुपर्युपविशति शेते त्वग्वर्तनं वा करोति कारयति वा परम् स तथा 'अहितं वा साइजर' अधितिष्ठन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति गृहस्थवोपभोगदोषप्रसङ्गात् ॥ सू० ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् — जे भिक्खू णिग्गंथीणं संघार्डि अण्णउत्थिएण वा गारत्थि - एण वा सिव्वावेइ सिव्वावेतं वा साइज्जइ ॥ सू० ७ ॥ छाया - यो भिक्षुर्निर्ब्रन्थीनां संघाटीम् अन्ययूथिकेन वा गृहस्थेन वा सीवयति सीवयन्तं वा स्वदते ॥० ७|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः आचार्य उपाध्यायादिको वा 'णिग्गंथीणं' निर्ग्रन्थीनां श्रमणीनाम् 'संघार्डि' संघाटीम् - शाटिकाम् उपलक्षणत्वात् कञ्चुक्यादिकं किमपि उपकरणम् 'अण्णउत्थिरण वा' अन्यमथिकेन वा अन्यतीर्थिकेन साधुना 'गारत्थिरण वा' गृहस्थेन वा - श्रावकादिना 'सिव्वावेइ' सीवयति - संघापयति तथा 'सिव्वातं वा साइजर' सीवयन्तं संधापयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागो भवति संयमविराधना आत्मविराधना च भवति । यथा -निर्ग्रन्थी कार्यकरणेन सा प्रसन्ना मोहग्रस्ता वा साधु स्त्रीमोहे पातयतीत्यादिकारणात् संयमविराधना | मोहग्रस्ता सा साधोरुपरि वशीकरणचूर्णादिप्रयोगं वा करोति तेन ग्रहगृहीतो वा भवेदित्यात्मविराधना । लोके उड्डाहो वा भवेत् यदयं निर्ग्रन्थीमोह मोहितो वर्त्तते अवश्यमनया सहास्य कोऽपि गोप्यः संबन्धो विद्यते येन निर्ग्रन्ध्या वख सीवनादिकं गृहस्थादिना कारयतीति साधुना निर्मन्थीसंघाटयाः सीवनं न कारयितव्यमिति भावः ॥ सू० ७॥ सूत्रम् — जे भिक्खू पुढवीकायस्स वा आउकायस्स वा अगणिकायस्स वा वाउकायस्स वा वणस्सइकायस्स वा कलमायमवि समारभइ सभारतं वा साइज्जइ ॥ सू० ८ ॥ छाया -यो भिक्षुः पृथिवीकायस्य वा अकायस्य वा अग्निकायस्य वा वायुकायस्य वा वनस्पतिकायस्य वा कलायमात्रमपि समारभते समारभमाणं वा स्वदते |८|| For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy