________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाग्यावचूरिः उ० १२ सु० ३-८
प्रत्याख्यानभङ्गादिनिषेधः २८५
अदृढत्वं जायेत, तथा अन्यं परित्यक्ष्यति करिष्यति चान्यमिति माया स्यात्, अन्यं भाषते अन्यं करोतीति मृषावादोऽपि भवेत्, एवं करणे सूत्रार्थपौरुषीणां विनाशोऽपि भवेत्, इत्यादयो बहवो दोषा भवन्ति तस्मात्कारणात् प्रत्याख्यानस्य भङ्गं न कुर्यात् न वा प्रत्याख्यानभङ्गं कुर्वन्तमनुमोदेत ॥ सू० ३ ॥
सूत्रम् — जे भिक्खू परित्तकायसंजुत्तं आहारं आहारेइ आहारेंतं वा साइज्जइ ॥ सू० ४ ॥
छाया - यो भिक्षुः परीतकायसंयुक्तमाहारमाइरति आहरन्तं वा स्वदते ॥४॥ चूर्णी 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् निर भिक्षुः श्रमणः श्रमणी वा 'परित्तकायसंजुत्तं' परीत्तकायसंयुक्तं, तत्र परीतकाय:- वनस्पतिकायः साधारण प्रत्येकेत - द्विविधो वनस्पतिकायः तेन सचित्तवनस्पतिकायेन संयुक्त संमिलितम् आहारम् - अशनपानस्वाद्यस्वाद्यात्मकचतुर्विधमाहारम् ' आहारेइ' आहरति भुङ्क्ते तथा 'आहारेंतं वा साइज्जइ' आहरन्तम् सचित्तवनस्पतिकायसंयुक्तमशनादिकं भुञ्जानं स्वदते अनुमोदते स प्रायश्चितभागी भवति ॥ सू० ४ ॥
सूत्रम् --जे भिक्खू सलामाईं चम्माई धरेइ धरेंतं वा साइज्जइ ॥
छाया -यो भिक्षुः सलोमानि कर्माणि धर्सत धरन्तं वा स्वदते ॥०५||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'सलोमाई' सलोमानि-रोमयुक्तानीत्यर्थः 'चम्माई' चर्माणि मृगादीनाम् 'घरेइ' धरति स्वसमीपे उपभोगाय स्थापयति तत्रोपविशति तत्र निषीदति तत्र स्वगवर्तनं च करोति, तथा 'घरें वा साइज्जइ' धरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति तेषां दुष्प्रतिलेख्यत्वात् । देशविशेषे हिमबाहुल्यादिकारणवशाच्चर्मधारण मावश्यकं भवेत्ततस्तद्विषयकोऽयं निषेध इति विवेकः ॥ सू० ५ ॥
सूत्रम् - जे भिक्खु तणपीढगं वा पलालपीढगं छगणपीढगं वेत्तपीढगं परवत्थेणोच्छन्नं अहिट्ठेइ अहिद्वैतं वा साइज्जइ ॥ सू० ६ ॥
छाया -यो भिक्षुः तृणपीठकं वा पलालपीठकं वा छगण (गोमय) पीठकं वा वेत्रपीठकं वा परवस्त्रेणावच्छन्नमधितिष्ठति अधितिष्ठन्तं वा स्वदते ॥ ६॥
चूर्णी - 'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'तणपीढगं वा तूणपीठकं वा, तत्र तृणो दर्भादिकः, तस्य पाठमित्यर्थः तृणमयमासनमिति यावद
For Private and Personal Use Only