SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ܙ ૩૮૪ निशीथसूत्रे गतो भवेत् तदा साधुर्गृहस्थस्य प्रसन्नतानिमित्तं तद्वशीकरणार्थं च तं स्वाभिमुखीकरणार्थं बध्नाति, एवं प्रातर्वनगमनवेलायां मुञ्चति च स चैवं विचारयति यदत्र गृहस्थोऽनुपस्थितः पशुश्च नादागतः एनं यदि न बध्नामि तदाऽयमन्यत्र गमिष्यति चोरो हरिष्यति तदा गृहस्थस्य महती हा निर्भविष्यतीत्यादि, तथा यदि वाटके गौर्महिषी वा निर्बन्धना स्थास्यति तदा वत्सो दुग्धं पास्यति तेन गृहस्थस्य दुग्धमल्पं भविष्यति तेन तस्य दुग्धहानिर्भविष्यति तेन कुपितो गृहस्थो मह्यमनादि न दास्यति वसतितो वा निष्कासयिष्यतीति बध्नाति, एवं प्रातर्वनगमनसमये गृहस्थानुपस्थितौ मुञ्चति च एवं तत्करुणया तद्भयेन वा गोमहिष्यादिकं बध्नाति मुञ्चति च तदा स प्रायश्वितभागी भवति, एतद् गृहस्थकार्यमिति संयमात्मविराधनावश्यम्भाविनी यथा - एवं करणे साधोर्गृहस्थानुचरता तत्किंकरता च भवति, तेन संयमे महान् दोष आपद्येतेति संयमविराधना स्पष्टा । तथा पशोर्बन्धने यदि पशवः स्वचरणादिना साधुं हन्ति तेन पीडितो भवेत् म्रियेत वेति आत्मविराधनाऽवश्यम्भावि नीति संयमात्मविराधना स्पष्टा । तथा भाष्ये यत् कथितम् -'न दोसो अणुकंपणे' इति, अस्यायं विवेकः - पशुबन्धनस्थाने यदि सर्पादयो घातकप्राणिनः संचरन्ति तदा तद्देशनादिसंभवः, कूपे गर्तादौ वा पशुः पतेत् गृहस्थश्चानुपस्थितो वर्त्तते इति तद्रक्षाबुद्धया परिस्थित्यनुसारेण पशोर्बन्धनं मोचनं चावश्यकं भवेत्, अथवा पशुगृहं वहूनिना प्रज्वलितं प्रज्वलनशङ्का वा तत्र भवेत् तदा गृहस्थानुप्रस्थितौ तद्रक्षणार्थं पशोर्बन्धनं मोचनं चावश्यकमिति तत्र पशोर्बन्धने मोचने च साधोर्न कोऽपि दोषः, एवमकरणे प्राणिवधजन्यपापभागी भवति " अहिंसा परमो धर्मः" इति जैनसिद्धन्तोऽपि बिलीनो भवेत् मत एतादृशावस्थायां साधुः पशोर्बन्धनं मोचनं च करोति तदा न कोऽपि दोष इति ॥ सू० २ ॥ सूत्रम् — जे भिक्खू अभिक्खणं अभिक्खणं पच्चक्खाणं भंजइ भंजंत वा साइज्जइ ॥ सू० ३॥ Acharya Shri Kailassagarsuri Gyanmandir छाया - यो भिक्षुरभीक्ष्णमभीक्ष्णं प्रत्याख्यानं भनक्ति भञ्जन्तं वा स्वदते । सू० ३॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणाः श्रमणी वा 'अभिक्खणं अभिक्खणं' अभीक्ष्णमभीक्ष्णं वारंवारम् 'पचक्खाणं' प्रत्यारव्यानं नमोक्कारपौरुध्यादिप्रत्याख्यानम् 'भंजइ' भनक्ति त्रोटयति 'भजतं वा साइज्जइ' भञ्जन्तं त्रोटयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति, अन्योऽपि दोषो भवति - यथाऽयं नमस्कारादिप्रत्याख्यानं भनक्ति तथा मूलगुणप्रत्याख्यानस्यापि भङ्गकरिष्यति एवम् अगीतार्थानां गृहस्थानां च अविश्वासं जनयति तथा प्रत्याख्यानभञ्जने लोकः साधूनामवर्णवादं करिष्यति, एवं प्रत्याख्यानभङ्गकरणे प्रत्याख्यानधर्मे श्रमणधर्मे वा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy