________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णिभाष्यावचूरिः उ०१२ सू०९-१३ वृक्षारोहण-गृहिपात्रवस्त्रनिषद्याचिकित्सानि० २८७
ची 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पुढवीकायस्स बा' पृथिवीकायस्य वा पृथिवीकायिकजीवस्येत्यर्थः एवमप्तेजोवायुवनस्पतिकायस्य वा 'कलमायमवि' कलायमात्रमपि, तत्र कलायो वृत्तधान्यविशेषः तावन्मात्रप्रमाणकमपि स्तोकप्रमाणमपि 'समारभई' समारभते पृथिवीकायिकादिजीवस्य अल्पमात्रमपि विराधनां करोति तथा 'समारभंतं वा साइज्जई' समारभमाणं वा पृथिवीकायिकादिजीवानाम् अल्पमात्रमपि विराधनां कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८॥
सूत्रम्-जे भिक्खू सचित्तरुक्खं दूरूहइ दूरुहंतं वा साइज्जइ ॥९॥ छाया-यो भिक्षुः सचितवृक्षं दूरोहति दूरोहन्तं पा स्वदते ॥सू० ९॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सचित्तरुक्खं' सचित्त वृक्षम् 'दुरूहइ' रोहति सचित्तवृक्षोपरि मारोहणं करोति तथा 'दरूइंतं वा साइज्जई' दूरोहन्तं वा स्वदते, यः सचित्तवृक्षोपरि मारोहणं करोति तदुपरि चरणो वा स्थापयति तमनुमोदते स प्रायश्चित्तभागी भवति । तत्र :सचित्तवृक्षाः त्रिप्रकारका भवन्ति संख्येयजीववन्तः यथा तालादिवृक्षाः, असंख्येयजीववन्तो यथा आम्रादिवृक्षाः, अनन्तजीववन्तो यथा थोहरादिकाः, एषां मध्ये कस्यापि वृक्षस्योपरि आरोहणं कुर्वतः पादं वा स्थापयत भाज्ञाभङ्गादिका दोषा भवन्तीति ॥ सू० ९॥
सूत्रम्-जे भिक्खू गिहिमत्ते भुंजइ भुंजतं वा साइज्जइ॥सू० १०॥ छाया-यो भिक्षुः गृहिमात्रके भुङ्क्ते भुजानं पा स्वदते ॥ सू० १०॥
चर्णी--'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी बा 'गिहिमत्ते' गृहिमात्रके गृहस्थस्य श्रावकादेः मात्रके भाजने स्थाल्यादावित्यर्थः ‘भुजइ' भुङ्क्ते अशनादिकचतुर्विधमाहारजातमुपभुङ्क्ते उपलक्षणाद् जलादि वा स्थापयति, तथा भुजंत वा साइज्जई' अशनादिकचतुर्विधमाहारजातं भुजानं श्रमणं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । तत्र गृहस्थमात्रकं द्विविधम् त्रसजीवदेहनिष्पन्नम् स्थावरजीवदेहनिष्पन्नं च, तत्र हस्तिदन्तादिनिर्मितं पात्रं त्रसजीवदेहनिर्मितमिति कथ्यते सुवर्णर जतताम्रकांस्यादिनिर्मितं पात्रं स्थावरजीवदेहनिर्मितं धातुपात्रम् । तथा भोजनस्योपलक्षणत्वात् वस्त्रादिप्रक्षालनार्थमपि गृहस्थस्य पात्रं न ग्रहीतव्यमिति । तत्र यः गृहस्थः स पूर्वमेव श्रमणार्थ पात्रं प्रक्षाल्य स्थापयेत् इति पुराकर्मदोषः, पश्चादपि श्रमणप्रतिनिवृत्तं पात्रं प्रक्षालयतीति पश्चात्कर्मदोषः । एवमादयो बहवो दोषा भवन्ति तस्मात् कारणात् श्रमणः श्रमणी वा गृहस्थस्य पात्रे स्थाल्यादौ न कदाचिदपि स्वयं भुञ्जीत न वा परं भोजयेत् भुञ्जन्तं नानुमोदेत ॥सू० १०॥
For Private and Personal Use Only