SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ एकादश देशकः ॥ व्याख्यातो दशमोद्देशकः, अथैकादशो व्याख्यायते, तत्र - दशमोदेशकान्तिमसूत्रस्य एकादशोदेशकस्यादिसूत्रेण सह कः सम्बन्ध इति चेदाह भाष्यकारः- भाष्यम् - दसमांतिमसुते य, निसिद्धो चीवरग्गहो । गारसा सुत्ते उ, पायग्गाहो पञ्च ॥१॥ छाया - दशमान्तिमसूत्रे च निषिद्ध श्रीवरग्रहः । एकादशादिसूत्रे तु पात्र ग्रहः प्रोच्यते ॥ १ । Acharya Shri Kailassagarsuri Gyanmandir अवचूरि : - दशमान्तिमसूत्रे तु दशमोदेशकस्यान्तिमे चरमे सूत्रे चीवरयाचनं चीवरस्य वस्त्रस्य याचनं ग्रहणं च निषिद्धम्, अत्र तु एकादशोदेशकस्यादिसूत्रे प्रथमसूत्रे पात्रस्य लोहादि - पात्रस्य निषेधः प्रोच्यते - अयमेव सम्बन्धः दशमैकादशोद्देशकसूत्रयोर्भवति, तदनेन सम्बन्धेनायातस्यास्य एकादशोद्देशकीयप्रथमसूत्रस्य व्याख्यानं प्रस्तूयते - 'जे भिक्खू' इत्यादि । सूत्रम् - जे भिक्खु अयपायाणि वा तंबपायाणि वा तउयपायाणि वा सीसगपायाणि वा कंसपायाणि वा रुपपायाणि वा सुवण्णपायाणि वा जायख्वपायाणि वा मणिपायाणि वा कणगपायाणि वा दंतपायाणि वासिंगपायाणि वा चम्मपायाणि वा चेलपायाणि वा अंकपायाणि वा संखपायाणि वा वइरपायाणि वा करेइ करेतं वा साइज्जइ || सू० १|| छाया - यो भिक्षुरयः पात्राणि वा ताम्रपात्राणि वा पुकपात्राणि वा शीशकपात्राणि वा कांस्यपात्राणि वा रूत्यपात्राणि वा सुवर्णपात्राणि वा जातरूपपात्राणि वा मणिपात्राणि वा कनकपात्राणि वा दन्तपात्राणि वा शृङ्गपात्राणि वा चर्मपात्राणि वा कोलपात्राणि वा अंकपात्राणि वा शङ्खपात्राणि वा वजपात्राणि वा करोति कुर्वन्तं वा स्वदते । सू० १ चूर्णी - 'जे भिक्खू' यः कश्चिद भिक्षुः श्रमणः श्रमणी वा 'अयपायाणि वा' अय:पात्राणि, तत्र अयो - लोहः तस्य पात्राणि जलानयनाय भिक्षानयनाय वा एतादृशानि अयःपात्राणि करोति इत्यग्रिमेण क्रियापदेनान्वयः 'तंबपायाणि वा' ताम्रपात्राणि वा तत्र ताम्रं प्रसिद्धं तस्य पात्राणि वा 'तउपायात्राणि वा' त्रपुकपात्राणि वा तत्र त्रपुः 'रांगा कलैः' इति लोकप्रसिद्धः तस्य पात्राणि वा 'सीसगपायाणि वा शीशकपात्राणि वा शीशकं 'सीसा' इति प्रसिद्धं तस्य पात्राणि 'कंसपायाणि वा' कांस्यपात्राणि वा तत्र कांस्यं 'कांशा' इति लोकप्रसिद्धं तस्य पात्राणि For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy