________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथस्वे
दब्वे भोयणमाइसु, खेरो गमणाइएमु गायव्वं ।
काले विपज्जओ खलु, भावे मिच्छाइया दोसा ॥ छाया-आशातना चतुर्विधा, द्रव्यक्षेत्रादि-मेदतः।
पतासां खलु नानात्वं, वक्ष्ये शास्त्रानुसारतः ।। द्रव्ये भोजनादिषु, क्षेत्रे गमनादिकेषु शातव्यम् ।।
काले विपर्ययः खलु, भावे मिथ्यात्वादिका दोषाः ॥ अवचूरिः-यास्त्रयस्त्रिंशत्प्रकारा दशाश्रुतस्कन्धोक्ता आशातनास्ता द्रव्यक्षेत्रकालभावभेदात् प्रत्येकं चतुर्विधाः चतुष्प्रकाराः सन्ति, एतासां इव्यक्षेत्रादि मेदभिन्नानामाशातनानां नानात्वं भेदोपभेदवर्णनं स्वरूपवर्णनं च शास्त्रानुसारतो यथाशास्त्र यथामति च वक्ष्ये कथयिष्यामि, तत्र द्रव्ये आशातना भोजनादिषु आहारादिषु भवतीति ज्ञायताम्, यथा शैक्षको रात्निकेन सह अशनादिकमाहारजातम् आहरन् तत्र शैक्षकः गुरुणा सह भुञानस्तमनापृच्छयैव भद्रं भद्रं आहरति, तथा शैक्षको रास्निकेन पर्यायाधिकेन वा सह अशनादिकं प्रतिगृह्य तद् रत्नाधिकमनापृच्छचैव यस्मै इच्छति तस्मै ददाति, एवं वस्त्रपात्रादिकेष्वपि विज्ञेयम् १। क्षेत्रे शास्त्रमर्यादामुल्लङध्य विहारे पुरतः पार्श्वतो मार्गतो वा आसन्नतो वा गमनं करोति, एवं स्थित्युपवेशनादिकेष्वपि विज्ञेयम् २। काले विपर्यासो यथा शैक्षको रत्नाधिकस्य रात्रौ विकाले वा आह्वयतो गुरोर्वचनमप्रतिशृण्वन् इव तिष्ठति, नोत्तरं ददाति ३। भावे विपर्यासः--यद् यद् गुरुः साधुसमाचारौं सूत्रार्थतदुभयं वा शिक्षयति तत्तत् न शणोति, अथवा भाण्वन् अपि अश्रुत इव तिष्ठति, अन्यथा वा वदति, अथवा गुरुधर्मकथायां प्रसन्नो न भवति, परुषं वा भाषते इत्यादि ४। तथा द्रव्यत आशातनाकरणे इमे दोषाः, तथाहि-यदि गुरुमनापृच्छय भुङ्क्ते तदा कदाचित् सचित्तं सदोषमपथ्यमपि च भुञ्जीत, अतिप्रमाणं वा भुञ्जीत तदा अजीर्ण स्यात् वमनादिकं वा भवेत् , इत्यादिका अनेके दोषा भवेयुरिति १। क्षेत्रत आशातनायामिमे दोषाः, तथाहि-गुरोः पुरतः पार्श्वतो मार्गतः आसन्नतश्चः गच्छतः शिष्यस्य साधुमर्यादोल्लविता भवेत् , एषा क्षेत्राशातना २। कालत अशातना यथा ग्लानो गुरुर्विकाले रात्रौ वा शिष्यमाह्वयति तदा तत्राप्रतिशृण्वतः शिष्यस्य ग्लानविराधनादिदोषा भवन्ति, उपकरणादिविनाशो वा असं. यमो वा भवेत् , आचार्यः क्रुद्धोपि भवेत् । तथा शृण्वन् अपि अशृण्वन् इव तिष्ठति तदा अन्यः कश्चित् साधुः कथयेत् किं भोः न शणोषि किमकर्णो बधिरो भवान् , तदा तत्रोत्तरप्रत्युत्तरकरणे परस्परं कलहोपि संभवेदिति कालाशातना ३ । एवं यो भावाशातनां गुरोः करोति तदा तस्यान्यः शिष्योऽपमानं करोति, श्रुतालाभश्च भवति एवं तस्य लोकेऽपि पराभवो भवति । इत्यादयो दोषा भवन्तीति |सू० ४॥
सूत्रम्-जे भिक्खू अणंतकायसंजुत्त आहारं आहारेइ आहारतं वा साइज्जइ ॥सू० ५॥
For Private and Personal Use Only