________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विभाष्यावरिः उ०१० स०५-६
आधाकाहारपरिभोगनिषेधः २९७ छाया-यो भिक्षुरनन्तकायसंयुक्तमाहारम् आहरति आहरन्तं वा स्वदते ॥ सू० ५॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अणंतकायसंजुर्त' अनन्तकायसंयुक्तम् , तत्र अनन्तकायः पनकशैवालादिः तेन संयुक्त संमिलितम् 'आहार' आहारम् अशनादिचतुर्विधाहारम् 'आहारेई' आहरति-पनकशैवालादिमिश्रितमाहारमुपभुक्ते 'आहारतं वा साइज्जई' आहरन्तं वा स्वदते । यो हि श्रमणः श्रमणी वा अनन्तकायसंयुक्तमाहारं भुङ्क्ते तमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ५॥
सूत्रम्-जे भिक्खू आहाकम्मं भुंजइ भुजंत वा साइज्जइ ॥ सू०६॥ छाया--यो भिक्षुराधाकर्म भुङ्क्ते भुञ्जानं वा स्वदते ॥सू० ६॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः ‘आहाकम्म' आधाकर्म आधानम् आधा चेतसि साधून आधाय मनसि निधाय तन्निमित्तं षड्जीवनिकायोपमर्दनादिना कर्म-भक्तादिपाकक्रिया क्रियते तदयोगाद् भक्काद्यपि आधाकर्म, तादृशमाहारं 'भुजई' भुङ्क्ते माहरति आधाकर्माहारजातस्य भोजनं करोति कारयति वा तथा 'भुंजत वा साइज्जई' भुञ्जानं वा स्वदते । यो हि श्रमण आधाकर्माहारमुपभुङ्क्ते तमनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारः-- भाष्यम् -संजयं च मणे किच्चा, निप्फाए ओयणाइयं ।
छायजीवमद्देणं, आहाकम्मं मुणेहि तं ॥१॥ तं च गिण्डइ जो भिक्खू , असणाइ चउन्विहं ।
दायारं णियमप्पाणं, दोसजुत्तं करेइ सो ॥२॥ छाया-संयतं च मनसि कृत्वा निष्पादयेत् ओदनादिकम् ।
षट्रकायजीवमन आधाकर्म जानीहि तत् ॥१॥ तच्च गुफाति यो भिक्षुः अशनादि चतुर्विधम् ।
दातारं निजमात्मानं दोषयुक्तं करोति सः ॥२॥ अवचरि:-'संजयं' इत्यादि । 'संजयं' संयतं साधुं च मनसि कृत्वा कमपि साधुमुद्दिश्य यत् ओदनादिकं निष्पादयेत्, तद् ओदनादिकं षट्कायजीवमर्दैन षट्कायजीवविराधनया आषाकर्म जानीहि ॥१॥
तच्च तादृशमशनादि चतुर्विधमाहारं यः कोऽपि भिक्षुर्गृह्णाति स दातारम् आधाकाहारदायक, तथा निजमात्मानं च दोषयुक्तं करोति । तथाहि-कस्यापि श्रावकादेर्गृहे कमपि साधुमुद्दिश्य
For Private and Personal Use Only