________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चूर्णभाष्यावचूरिः १० सू० १-४
भदन्तं प्रति आगढादिभाषणतदाशातनानिषेधः २२५
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भदंतं' भदन्तमाचार्यो - 1 पाध्यायादिकं पर्यायज्येष्ठं वा 'फरुष' परुषं कर्कशं कठोरवचनं स्नेहरहित रूक्षमित्यर्थः वाक्यं 'त्वं व्यवहारं न जानासि' इत्यादिकम् 'वयइ' वदति भाषते 'वयंतं वा साइज्जइ' वदन्तं वा स्वदते । आचार्याय कठोरवचनभाषकं श्रमणमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २ ॥
सूत्रम् - जे भिक्खू भदंतं आगाढं फरुसं वयइ वयंतं वा साइज्जइ ॥
छाया - यो भिक्षुर्भदन्तं आगाढंपरुषं वदति वदन्तं वा स्वदते ॥ सू० ३ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भदंत' भदन्तम् आचार्योपाध्यायपर्यायज्येष्ठादिकं 'भागादं फरुसं' आगादं परुषं सूचाऽसूचादिभेदभिन्नं प्रथमसूत्रवर्णितमागाढं तथा परुषं कर्कशं रूक्षं वचनम् 'वयम्' वदति भाषते 'वयंतं वा साइज्जइ' वदन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ||सू० ३॥
सूत्रम् - जे भिक्खू भदंतं अण्णयरीए अच्चासायणाए अच्चासाएइ अच्चासाएंतं वा साइज्जइ ||सू० ४||
Acharya Shri Kailassagarsuri Gyanmandir
छाया - यो भिक्षुर्भदन्तमन्यतरया अत्याशातनया अत्याशातयति अत्याशातयन्त घा स्वदते || ४ ||
चूर्णी -- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भदंतं' भदन्त - माचार्यादिकं पर्यायज्येष्ठं च 'अण्णयरीए' अन्यतरया दशाश्रुतस्कन्धे त्रयस्त्रिंशत्प्रकारा आशा -
२९
कथिताः तासां मध्यात् अन्यतरया यया कयाचिदेकयापि 'अच्चासायणाए' अत्याशातनया तथाऽऽचार्यादिकं प्रति विनयवैयावृत्यादिकरणेन यत् फलं प्राप्यते तत् फलं आशातयति विनाशयतीति आशातना, यद्वा ज्ञानादिगुणा आ-सामस्त्येन शात्यन्ते अपध्वस्यन्ते यया सा तया अन्यतरया आशातनया आचार्यादिकं पर्याय ज्येष्ठं च 'अच्चासारइ' अत्याशातयति तेषामाशातनां करोति 'अच्चासाएंतं वा साइज्जइ' अत्याशातयन्तम् आशातनां कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारः --
भाष्यम् - आसाणा चउव्विहा, दव्वखेत्ताइभेयभो । एएसिं खलु णाणतं वोच्छं सत्थानुसारओ ॥
For Private and Personal Use Only