________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्षिमाध्यावरिः उ०९ सू० १३-१९ यात्रासंप्रस्थितनिवृत्तराजादोनामाहारग्रहणनि० २१३ अया-राजा व यत्र तिष्ठति, वत्रस्थेषु गृहादिस्थानेषु ।
भिक्षुदोषान् प्राप्नोति, विहारादेः करणात् ॥ अवधूरिः- 'राया य जत्थ चिढई' या प्रदेशविशेषे राजक्षत्रियः क्षत्रियवंशीयो राजा तिष्ठति 'तत्वत्येमुं' तत्रस्थेषु तदासन्नस्थितेषु गृहादिस्थानेषु 'विहारमाइस्स करणाओ' विहारादेः, विहारस्य आदिशब्दात् स्वाध्यायस्य माहारस्य उच्चारादिपरिष्ठापनस्य अन्यतरदनार्यनिष्ठुसश्रमणप्रायोग्यकथायाश्च करणात् 'भिक्खू भिक्षुः श्रमणः श्रमणी वा 'दोसे' दोषान् भाशामझानवस्थादिकान् 'पावई' प्राप्नोति । यः कोऽपि साधुः राजादिनिवासासन्नगृहादिप्रदेशे बिचरेत् स्वाध्याय कुर्यात् हारं कुर्यात् उच्चारप्रसवणं परिष्ठापयेत् शिष्टविगर्हितां काञ्चित् कषां वा कुर्यात् , एवं कारयेत् वा, तथा कुर्वन्तमनुमोदयेत् वा स आज्ञाभङ्गमनबस्था मिथ्यात्वं संयमविराधनमात्मविराधनं च प्राप्नुयात् , एवं भद्रकाभद्रककृता अनेके दोषा अपि भवेयुरिति । यस्माद एते पूर्वोक्ता दोषा भवन्ति तस्मात्कारणात् श्रमणः श्रमणी वा राजादिनिवासासन्न स्थितगृहादौ तत्समीपे वा विहारमारम्य शिष्टजनानाचरणीयकथापर्यन्तं स्वयं न कुर्यात् न या कारयेत् म बा कुर्वन्तं कमपि अनुमोदयेदिति ॥सु० १२॥
सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं बहिया जत्तासंपट्ठियाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥सू०१३॥
छाया--यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां बहिर्यात्रासंस्थितानाम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिरक्षाति प्रति गृहन्तं पा स्वदते ॥सू० १३॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रणो' राज्ञः 'खत्तियाणं' क्षत्रियाणाम् 'मुदियाणं' मुदितानाम् 'मुदाभिसित्ताणं' मूर्दाभिषिक्तानाम् पूर्वोक्तस्वरूपाणां 'बहिया जत्तासंपटियाणं' बहिर्यात्रासंस्थितानां परराजविजयार्थ प्रस्थितानाम् , यदा राजा परराजविजयाथं गच्छति तदा मङ्गलार्थ भोजनं कृत्वा गच्छति तादृशभोजनादित्यर्थः 'असणं वा' अशनं या पाणं पा' पानं वा 'खाइम पा' खाद्यं वा 'साइमं वा' स्वार्थ वा 'पडिग्गाहेइ' प्रतिगृह्णाति तथा 'पडिम्गात वा साइज्जई' प्रतिगृहन्तं वा स्वदते । यो हि विजयार्थ प्रस्थितस्य राजादेमार्गे माल्यार्थ निर्मितभोजनादिसामग्रीतोऽशनादिकं स्वीकरोति स्वीकारयति वा, तथा तादृशमशनादिकं स्वीकुर्वन्तमनुमोदयति स प्रायश्चित्तभागी भवति ॥२०१३॥
सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं बहिया जत्तापडिणियत्ताणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहइ पडिग्गाहेंतं वा साइज्जइ ॥सू० १४॥
For Private and Personal Use Only