________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे
छाया-यो भिक्षुः रामः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां बहिर्यात्राप्रतिनिवृत्तानामशनं वा पानं वा साधं वा स्वाद्य वा प्रतिगृहाति प्रतिवन्तं वा स्वदते ॥सू०१४
चूर्णी-'जे भिक्ख' इत्यादि । 'यथा पूर्वसूत्रे यात्रार्थ प्रस्थितानां राजादीनामशनादिग्रहणस्य निषेधः कृतस्तथैवात्र यात्रातः प्रतिनिवृत्तानां राजादीनामशनादिग्रहणनिषेधो वक्तव्यः । सूत्रस्याक्षरगमनिका सुगमा ॥ सू० १४॥ एवम् 'नईजत्तासंपटियाणं' नदीनां यात्रार्थ संप्रस्थितानां राजादीनामशनादिग्रहणनिषेधसूत्रम् ॥ सू० १५॥ तथा एवमेव 'नईजत्तापडिनियत्ताणं' नदीयात्रातः प्रत्यागतानां राजादीनामशनादिग्रहणनिषेधसूत्रम् ॥ सू० १६।। एवमेव 'गिरिजत्तासंपटियाणं' गिरियात्रार्थ संप्रस्थितानाम्, इति सूत्रम् ॥ सू०१७॥ तथा 'गिरिजत्तापडिनियताणं' गिरियात्रातः प्रतिनिवृत्तानाम्, इति सूत्रम् । एषा सूत्रचतुष्टयी त्रयोदशसूत्रयात्राप्रस्थितसूत्रवदेव व्याख्येया ॥ सू० १८॥
सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्राभिसित्ताणं महाभिसेयंसि वट्टमाणंसि णिक्खमइ वा पविसइ वा णिक्खमंतं वा पविसंतं वा साइज्जइ ॥सू० १९॥
छाया-यो भिक्षुः राशः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां महाभिषेके वर्त माने निष्कामति वा प्रविशति वा निष्कामन्तं वा प्रविशन्तं वा स्वदते ॥सू १९॥
चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादि राजादीनां 'महाभिसेयंसि' महाभिषेके तत्राभिषेकानां मध्ये महान् अभिषेको महाभिषेकः, तस्मिन् महाभिषेके 'वट्टमाणसि' वर्तमाने प्रवर्त्तमाने महाभिषेकस्य समये तत्र 'णिक्खमइ वा' निष्क्रामति तत्र गन्तुमुपाश्रयात् निर्गच्छति वा 'पविसइ वा' प्रविशति वा तत्र महाभिषेकस्थाने प्रवेशं कुरुते वा 'णिक्खमंतं वा' निष्कामन्तं वा 'पविसंतं वा साइज्जई' प्रविशन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १९॥
सूत्रम्--जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाओ दस अभिसेयाओ रायहाणीओ उद्दिवाओगणियाओ वंजियाओ अंतो मासस्स दुक्खुत्तोवा तिक्खुत्तो वा णिक्खमइ वा पविसइ वा णिक्खमंतं वा पविसंतं वा साइज्जइ । तंजहा-चंपा १, महुरा २, वाणारसी ३, सावत्थी ४, साएयं ५, कंपिल्लं ६, कोसंबी ७, मिहिला ८, हथिणापुरं ९, रायगिहं वा १० ॥ सू० २०॥
For Private and Personal Use Only