________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०८
निशीथसूत्रे
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादि राजादीनां 'आगच्छमाणाण वा' आगच्छतां पदातिसैन्यबलैः सह नगरे प्रवेशं कुर्वताम् 'णिग्गच्छमाणाण वा' निर्गच्छतां वा नगरान्निर्गत्य कौमुदीक्रीडाद्यर्थमुपवनादौ गमनं कुर्वतां परसैन्यमर्दनाय वा गच्छतां 'पयमवि' पदमपि एकपदन्यासमपि 'चक्खूदंसणपडियाएं चक्षुर्दर्शनप्रतिज्ञया चक्षुषा दर्शनवाञ्छया नगरे आगमनसमये नगरात् गमनसमये राजानं द्रष्टुं चक्षुर्दर्शन विषय तां कर्तुं पदमपि एकचरणन्यासमपि 'अभिसंधारे ' अभिसन्धारयति गन्तुं मनसि विचारं करोति दर्शनस्य तु का कथा विचारमात्रमपि यदि करोति, अथवा दर्शनार्थमेकपदन्यासमपि गन्तुं विचारयति, तथा 'अभिसंधारेतं वा साइज्जइ' अभिसन्धारयन्तं वा विचारं कुर्वन्तमन्यं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।
Acharya Shri Kailassagarsuri Gyanmandir
अत्राह भाष्यकारः -
भाष्यम् – गमनागमणे रण्णो, दंसणमहं पपि धारेइ । जो भिक्खू सो पाव, आणाभंगाइए दोसे ॥१॥
छाया - गमनागमने राशः, दर्शनार्थ पदमपि धारयति ।
यो भिक्षुः स प्राप्नोति, आशाभङ्गादिकान् दोषान् ॥ अवचूरि - 'गमणागमणे' इत्यादि । 'रण्णो' राज्ञः सूत्रोक्तप्रसंगात् क्षत्रियाणां मुदितानां राज्याभिषिक्तानां च गमने उपवन सेवनादिनिमित्तं नगराद्बहिर्निस्सरणसमये, आगमने उद्यानादितो नगरप्रवेशसमये दर्शनार्थं तदवलोकनार्थं गन्तुं यः कश्चिद् भिक्षुः पदमपि - एकपदन्यासमपि 'धारे ' धारयति करोति, किंबहुना अभिसंधारयति मनसि विचारमपि करोति स आज्ञा भङ्गादिकान दोषान् 'पावेइ' प्राप्नोतीति भाष्यगाथार्थः । एवमाज्ञाभङ्गादितोऽतिरिक्ता अपि आत्मविराधनभद्राभद्रकदोषाश्चापि भवन्ति । तथाहि - यदि राजा भद्रको भवेत् तदा यात्रासमये साधुं दृष्ट्वा एवं विचारयति-यत् यात्रासमये दृष्टः साधुरवश्यं मे कल्याणं भविष्यति जयो वा, यदि युद्धादौ विजयी भवति तदा आगत्य साधु सम्मानयतीति सम्मानादिकरणेन साधोर्गर्वो भवति यत् मां राजाऽपि सम्मानयतीति, तथा तुष्टो राजा वस्त्रादिना यदि सत्कारयति तदा स सत्कृतश्च साधुः परिग्रही भवति, ततः साधुक्रियायां प्रमादं कुर्वन् संयमं विनाशयेत् । अथ यदि राजा चाभद्रस्तदा यात्रा समये साधुं दृष्ट्वा मनसि विचारयति - यात्रासमये दृष्टोऽयं लुञ्चितकेशोऽतोऽवश्यमेव विघ्नो भवि यतीति गन्तुकामोऽपि निवर्तते, अथ कथमपि गतस्तदा यदि भाग्यवशात् तस्य कोऽपि विघ्नो जातः, अथवा युद्धे तस्य पराजयो वा जातस्तदा प्रत्यागतः श्रमणेन सह द्वेषं कुर्यात्, प्रद्विष्टश्च राजा भक्तपानौषधभैषज्यादीनां दाननिषेधं नगरे कुर्यात्, उपकरणादिकं वा अपहरेत्, हृत्वा चापमानपूर्वकं निर्वासयेदपि, तदनन्तरं श्रमणान्तरस्यापि भक्तपा नादिव्यवच्छेदं कुर्यात् तस्मात् राज्ञो दर्शनार्थे विचार
For Private and Personal Use Only