________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सप्तमोद्देशकः॥
(मातग्रामप्रकरणम् ) व्याख्यातः षष्ठोदेशकः, सांप्रतमवसरप्राप्तः सप्तमोद्देशको व्याख्यायते, अस्य सप्तमोदेशकीत्यादिसूत्रस्य षष्ठोदेशकान्तिमसूत्रेण सह कः सम्बन्धः ? इति चेद् अत्राह भाष्यकारःभाष्यम्-अंतो भूसणमाहारो, बाहिं भूसा उ मालिया ।
इणमो चेव संबंधो, छठेण सत्तमस्स उ ॥ छाया-अन्तर्भूषणमाहारो बाह्यभूषा तु मालिका ।
___अयमेव हि सम्बन्धः षष्ठेन सप्तमस्य तु ॥
अवचूरिः-'अंतो भूसणमाहारो' इत्यादि । 'आहारः' दुग्धदध्यादिविकृतिपदार्थानामाहारो अन्तर्भूषणम् । मालिका-पुष्पमालादिकं तु बाह्यभूषणं साधूनां प्रतिषिद्धम् , अयमेव सम्बन्धः षष्ठेन-षष्ठान्तिमसूत्रेण सह सप्तमोदेशकादिसूत्रस्य भवतीति । अयं भावः-षष्ठोदेशकस्योपान्त्य सूत्रे 'जे भिक्खू माउग्गामस्स मेहुणवडियाए खोरं वा' इत्यादिविकृत्याहारस्य प्रतिषेधः कृतः, अत्र तु सप्तमोदेशकादिसूत्रे मालिकानां प्रतिषेधः क्रियते यतो मा भवतु साधोर्बाह्यभूषणम् इति बाह्याभ्यन्तरभूषणप्रतिषेधस्य समानत्वात् षष्ठोद्देशकानन्तरं सप्तमोद्देशकस्य निरूपणं क्रियते, अयमेव सम्बन्धः पूर्वापरसूत्रयोर्भवति । तदनेन सम्बन्धेनायातस्य सप्तमोदेशकस्य प्रथमं सूत्रं प्रस्तूयते'जे भिक्खू' इत्यादि।
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए तणमालियं वा मुंजमालियं वा वेत्तमालियं वा मयणमालियं वा पिंछमालियं वा दंतमालियं वा सिंगमालिय वा संखमालियं वा हड्डमालियं वा कट्ठमालियं वा पुष्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा करेइ करेंतं का साइज्जइ ॥ सू० १॥
छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिक्षया तृणमाणिकां वा मुञ्जमालिकां वा वेत्रमालिकां वा मदनमालिकां वा पिच्छमालिकां वा दन्तमालिकां वा शृङ्गमालिका वा शङ्खमालिकां वा अस्थिमालिकां वा काष्ठमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा बीजमालिकां वा हरितमालिकां वा करोति कुर्वन्तं वा स्वदते ॥सू० १॥
चूर्णी-'जे भिक्खू' यः कश्चिद् भिक्षुर्निरवधभिक्षणशीलः श्रमणः 'माऊग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनवाञ्छया 'तणमालियं वा' तृणमालिकां वा वीरणादितृणजनित
For Private and Personal Use Only