SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथसूत्रे १७२ मालां करोति, यथा मथुरायां करोति, करोतीत्यग्रिमेण क्रियापदेन सम्बन्धः, तथा 'मुंजमालियं वा' मुञ्जमालिकां मुंजस्य तन्नामक तृण विशेषस्य मालां करोति यथा द्विजानां व्रतबन्धने क्रियते, तथा 'वेत्तमालियं वा' वेत्रमालिकां वा वेत्रं लताविशेषः 'वेत्र' 'नेत्र' इति लोकप्रसिद्धम्, तस्य वेत्रस्य मालां कटककेयूरादिरूपां करोति तथा 'मयणमालियं वा' मदनमालिकां वा, तत्र मदनं पुष्पविशेषः, तस्य मालां करोति तथा ‘पिंछमालियं वा' पिच्छमालिकां वा व्रणादिपीडा निवारणार्थं मयूरादिपिच्छैर्मालां करोति 'दंतमालियं वा' दन्दमालिकां वा - बालस्य दृष्टिदोषनिवारणार्थं हस्त्यादिदन्तानां मालां करोति तथा 'सिंगमालियं वा' शृङ्गमालिकां वा - महिण्यादिशृङ्गेण मालां करोति यथा पारसीयजातिविशेषे 'संखमालियं वा शङ्खमालिकां वा - बालस्य गले धारणार्थे शङ्खस्य मालां करोति 'हडमालियं वा' अस्थिमालिकां वा गजादिजीवानाम् 'जरख' इति प्रसिद्ध चतुष्पदपशुविशेषस्य वा अस्नां मालां करोति 'कट्टमालियं वा' काष्ठमालिकां वा, तत्र काष्ठस्य तुलस्यादिकाष्ठस्य मालां करोति 'पत्तमालियं वा' पत्रमालिकां वा पत्राणां तगरादि सुगन्धितपत्राणां मालां करोति 'पुप्फमालियं वा' पुष्पमालिकां वा, तत्र पुष्पाणां चंपकादिवृक्षसमुद्भूतानां मालां करोति, 'फलमालियं वा' फलमालिकां तत्र फलानां गुञ्जादिफलानां मालां करोति 'बीयमालियं वा ' बीज मालिकां वा, तत्र बीजानां रुद्राक्षादीनां मालां संपादयति 'हरियमालियं वा' हरितमालिकां वा, तत्र - हरितकायानां पाण्डुप्रभृतिरोगशमनाय ' दूर्वा पुनर्नवादीनां माला 'करेइ' करोति स्वयं करोति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते अनुमोदते तृणमालिकादिकं यः स्वयं करोति परद्वारा वा कारयति कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति, यस्मादेते दोषा भवन्ति तस्मात् कारणात् श्रमणो मातृग्रामस्य मैथुन सेवनेच्छया स्वपरशरीरशोभार्थं दृष्टिदोषरोगादिनिवारणार्थं वाऽन्यार्थे तृणादिमालां न स्वयं कुर्यात् न परद्वारा कारयेत् न वा कुर्वन्तमन्यमनुमोदयेदिति ॥ सू० १ ॥ सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए तणमालियं वा मुंजमालियं वा वेत्तमालियं वा मयणमालियं वा पिछमालियं वा दंतमालियं वा सिंगमालियं संखमालियं वा हड्डमालियं वा कट्ठमालियं वा पत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा धरे इ धरें वा साइज्जइ ॥ सू० २ ॥ छाया - यो भिक्षुर्मातृग्रामस्थ मैथुनप्रतिज्ञया तृणमालिकां वा मुन्जमालिकां वा वेत्रमालिकां वा मदनमालिकां वा पिच्छमालिकां वा दन्तमालिकां वा शृङ्गमालिकां वा शङ्ख For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy