________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७०
विशीष
छाया - यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिज्ञया क्षीरं वा दधि वा नवनीतं वा सपिं गुडं वा खण्डं वा शर्करां वा मत्स्यण्डिकां वा अन्यतरं प्रणीतमाहारमाहरति आदरतं वा स्वदते ॥सू० २६ ||
चूर्णी - 'जे भिक्खू माउग्गामस्ल' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'माउग्गामस्स' मातृग्रामस्य ‘मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'खीरं वा' क्षीरं वा दुग्धम् गवादीनां दुग्धम् 'दहिं वा' दधि वा 'णवणीयं वा' नवनीतं वा 'मक्खन ' इति लोकप्रसिद्धम् 'विवा' सर्पितं वा 'गुलं वा' गुडं वा 'खंड वा' खण्डं वा 'खांड' 'चीनी' इति लोकप्रसिद्धम् 'क्रं वा' शर्करां वा 'बूरा' इति प्रसिद्धाम् ' मच्छंडियं वा' मत्स्यण्डिकां वा मिसरीति लोकप्रसिद्धाम् ' अन्मयरं वा पणीयं' अन्यतरं वा प्रणीतम् सरसम् ' आहारं ' आहारम् 'आहरेइ' आहरति दुग्धादिविकृतीनां भोजनं करोति । अयं भावः - विवर्णः शरीरदुर्बलः श्रमणः दुग्धादीनां भोजनादुपचितशरीरः सुकुमारशरीरः कामिनीनां कमनीयः स्यामिति बुद्धया दुग्धाद्यन्यतमं विकृतीनां भोजनं करोति सः, तथा 'आहरेंतं वा साइज्जइ' आहरन्तं वा स्वदते अनुमोदते यः सोऽपि प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ॥ सू० २६ ||
सूत्रम् - तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं ति ॥ सू० २७॥
Acharya Shri Kailassagarsuri Gyanmandir
छाया- -
तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्वातिकमिति ॥२७॥ चूर्णी - 'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः षष्ठोदेशकस्य 'जे भिक्खू माउमामा मेहुणवडियाए विष्णवेइ विष्णवेतं वा साइज्जइ' इति प्रथमसूत्रादारम्य 'जे भिक्खू मागास मेहुणवडियाए खीरं वा एतत्सूत्रपर्यन्तं कथितं प्रायश्चित्तस्थानं सर्व, तथा अन्यतममपि प्रायश्चित्तस्थानं सेवमानः तस्य प्रतिसेवनां कुर्वन् भिक्षुः 'आवज्जइ' आपद्यते प्राप्नोति 'चाउम्मासि परिहारहाणं अणुस्वाइयं' चातुर्मासिकं परिहारस्थानमनुद्घातिकम् गुरुचातुर्मासिकं प्रायश्चित्तमापद्यते इति भावः । सू० २७॥
इति श्री - विश्वविख्यात - जगद्वल्लभ- प्रसिद्धवाचक - पञ्चदशभाषाकलित ललित कलापालापकप्रविशुद्धगद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुरराजप्रदत्त“जैनशास्त्राचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री - घासीलालवति - विरचितायां “निशीथसूत्रस्य " चूर्णि भाष्यावचूरिरूपायां व्याख्यायां षष्ठोदेशकः समाप्तः ॥ ६॥
For Private and Personal Use Only