________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावचूरिः उ० ६ सू० २४-२७
मातृप्रामप्रकरणम् १६९ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्ज ॥सू० २४॥
छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिक्षया आत्मनः पादौ आमार्जयेद्वा प्रमार्जयेद्वा आमार्जयन्तं वा प्रेमार्जयन्तं वा स्वदते ॥सू० २४॥
चूर्णी- 'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अप्पणो पाए' आत्मनः स्वस्य पादौ चरणौ 'आमजेज्ज वा' आमार्जयेद्वा एकवारं वस्त्रादिना 'पमजेज्ज वा' प्रमार्जयेद्वा अनेकवारम् 'आमज्जंतं वां पमज्जंतं वा साइज्जइ' आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० २४ ॥
सूत्रम्- एवं तइयउद्देसे जो गमो सो चेव इहंपि मेहुणवडियाए णेयन्वो जाव जे भिक्खू माउग्गामस्स मेहुणवडियाए गामाणुगामं दूइज्जभाणे अप्पणो सीसदुवारियं करेइ करतं वा साइज्जइ ॥ सू०२५॥
छाया-एवं तृतीयोद्देशके यो गमः स एव इहापि मैथुनप्रतिज्ञायां ज्ञातव्यः यावत् यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया ग्रामानुप्रामं द्रवन् आत्मनः शीर्षद्वारिकां करोति कुर्वन्तं वा स्वदते ॥ सू० २५॥
__ चूर्णी--'एवं तइयउद्देसए' इत्यादि । 'एवं तइयउद्देसए' एवं तृतीयोद्देशके 'जो गमो' यो गमः सूत्रप्रकारः 'सो चेव इहंपि मेहुणवडियाए णेयव्यो' स एव गमः इहापि षष्ठोद्देशके मैथुनप्रतिज्ञायामपि ज्ञातव्यः । कियत्पर्यन्तम् ! इत्याह-'जाव' इत्यादि, इतः पादसंबाहनसूत्रादारभ्य शीर्षद्वारिकासूत्रपर्यन्तानि सूत्राणि तृतीयोदेशकोक्तसूत्रवद् अत्रापि मैथुनप्रतिज्ञया व्याख्येयानि । अत्राह भाष्यकारः
"पायप्पमज्जणाई, सीसदुवारांत जो गमो तइए ।
मेहुणवडियाए पुण, छठुइसंमि सो चेव ।। छाया-पादत्रमार्जनादि, शोर्षद्वारिकान्तं यो गमस्तृतीयोद्देशके ।
__ मैथनप्रतिज्ञया पुनः षष्ठोद्देशके स एव ॥ अवचूरिः-- 'पायप्पमज्जणाई' इत्यादि सुगमम् ॥ सू० २५ ॥
सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए खीरं वा दहिं वा णवणीयं वा सप्पिं वा गुलं वा खंडं वा सक्करं वा मच्छंडियं वा अन्नयरं वा पणीयं आहारं आहारेइ आहरंतं वा साइज्जइ ॥सू० २६॥
For Private and Personal Use Only