________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावचूरिः उ. ६ सू० ९-१३।
मातृग्रामप्रकरणम् १६३ त्वचोऽपनयनं करोति-अङ्गादानस्य त्वम् अपनीय मणि निष्कासयतीत्यर्थः 'पिच्छल्लेत वा साइज्जइ' निश्छल्लयन्तं वा त्वगपनयनं कुर्वन्तमनुमोदते स प्रायश्चित्तभागी भवति । अत्र दृष्टान्तो यथा-कश्चित् पुरुषः सुखसुप्तस्याऽजगरस्य मुखं स्फाटयति स क्रुद्धेन तेन निर्गलितो म्रियते, एवमङ्गादानस्य त्वगपनयनं कुर्वतः साधोश्चारित्रं विनश्यतीति ॥ सू० ८॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं जिग्घइ जिग्यंत वा साइज्जइ ॥ सू० ९॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिक्षया अङ्गादानं जिप्रति जिवन्तं वा स्वदते ॥ सू० ९॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अंगादाणं' अङ्गादानम् 'जिग्घई' जिघ्रति-नासिकया आघ्रातीत्यर्थः 'जिग्येत वा साइज्जइ' जिघन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ९॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं अन्नयरंसि अचित्तंसि सोयंसि अणुप्पवेसेत्ता सुकपोग्गले निग्याएइ निग्याएतं वा साइज्जइ ॥ सू० १०॥ ___छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अङ्गादानमन्यतरस्मिन् अचित्ते स्रोतसि अनुप्रवेश्य शुक्रपुद्रलान् निर्घातयति निर्घातयन्तं वा स्वदते ॥ सू० १०॥
चूर्णी- 'जे भिक्खू माउम्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउगामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अंगादाणं' अङ्गादानम् स्वमेदम् 'अन्नयरंसि' अन्यतरस्मिन् स्रोतस्सु बहुषु मध्ये यस्मिन् कस्मिंश्चिदपि 'अचित्तंसि सोयंसि' अचित्ते निर्जावे स्रोतसि छिद्रे 'अणुप्पवेसित्ता' अनुप्रवेश्य तत्र प्रविष्टं कृत्वा 'मुक्कपोग्गले शुक्रपुद्गलान् वीर्यपुद्गलान् 'निग्याएई' निर्घातयति-पातयति 'णिग्याएंतं वा साइम्जई' निर्घातयन्तं वा स्वदते अनुमोदते ॥ सू० १०॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अवाउर्डि सयं कुज्जा सयं बूया करते वा बूएतं वा साइज्जइ । सू० ११ ॥
छाया- यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिक्षया अप्रावृति स्वयं कुर्यात् स्वयं ब्रूयात् कुर्वन्तं वा त्रुवन्तं वा स्वदते ॥ सू० ११ ॥
For Private and Personal Use Only